________________
शिशुपालवधे
मुह्यते उपन्यस्यत इति यत् । ' उग्राहितमुपन्यस्तम्' इति वैजयन्ती । सा । तदुग्रहणमित्यर्थः । विधेयप्राधान्यात्स्त्रीलिङ्गत्वम् । वक्तुरुग्राहयितुः परिचयस्थैर्येsभ्यासदाढ हेतुर्गुणनिका । आम्रेडितमेवेति यावत् । नतु वैदुष्यप्रकटनमिति भावः । 'गुण आम्रेडने ' चौरादिकात् 'ण्यासश्रन्थो युच्' इति युच् । ततः संज्ञायां कन् । कात्पूर्वस्येकारः ॥
संप्रति स्वगतमुपन्यस्यति —
५२
प्रज्ञोत्साहावतः स्वामी यतेताधातुमात्मनि । तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ ७६ ॥
प्रज्ञेति ॥ अतोऽस्मात्कारणात्स्वमस्यास्तीति स्वामी प्रभुः । 'स्वामिन्नैश्वर्ये ' इति निपातः । प्रज्ञोत्साही मत्रोत्साहशक्ती आत्मनि स्वस्मिन्नाधातुं संपादयितुं यतेत । स्वयमुभयशक्तिमान्भवेदित्यर्थः । कुतः - हि यस्मात्तौ प्रज्ञोत्साहौ उदेव्यन्त्या वर्त्यन्त्याः जिगीषोरात्मनः संपदः प्रभुशक्तेर्मूलं निदानम् । अत्रोत्साहग्रहणं दृष्टान्तार्थम् । यथोत्साहस्तथा मन्त्रोऽपि ग्राह्यो, न तु केवलोत्साह इति
।
बलभद्रापवादः ॥
उत्साहवत्प्रज्ञापि ग्राह्येत्युक्तं तस्याः प्रयोजनमाह -
सोपधानां धियं धीराः स्थेयसीं खगयन्ति ये ।
तत्रानिशं निषण्णास्ते जानते जातु न श्रमम् ॥ ७७ ॥
सोपधानामिति ॥ ये धीरा धीमन्तः सोपधानां सविशेषाम् । युक्तियुक्तांमित्यर्थः । अन्यत्र सर्गेन्दुकाम् । सोपबर्हामित्यर्थः । ' उपधानं विशेषे स्याद्वेन्दु के प्रणयेऽपि च' इति विश्वः । स्थेयसीं स्थिरतरामचपलां, द्रढीयसीं च । स्थिरशब्दादीयसुनि 'प्रियस्थिर - ' इत्यादिना स्थादेशः । धियं खयन्ति खट्टां पर्यङ्कं कुर्वन्ति । आश्रयन्तीत्यर्थः । ' शयनं मञ्च पर्यङ्कपल्यङ्काः खट्ट्या समाः' इत्यमरः । ' तत्करोति तदाचष्टे' इति णिच् । ते धीरास्तत्र धीखद्वायामनिशमश्रान्तं निषण्णा विश्रान्ताः सन्तो जातु कदाचिदपि श्रमं खेदं न जानते न विदन्ति । 'श्रमः खेदोऽध्वरत्यादे’रिति लक्षणम् । धीपूर्वक एवोत्साहः सेव्यो न केवल इति सर्वथा धीराश्रयणीयेत्यर्थः । अत्र धिय आरोप्यमाणायाः प्रकृतश्रमापनोदरूपोपकारपर्यन्ततया परिणामालंकारः । 'आरोप्यमाणस्य प्रकृतोपयोगित्वे परिमाणः' इति लक्षणात् ॥ अथ प्रज्ञाप्रज्ञयोर्द्वाभ्यां वैषम्यमाह
स्पृशन्ति शरवत्तीक्ष्णास्तोकमन्तर्विशन्ति च । बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥ ७८ ॥
स्पृशन्तीति ॥ तीक्ष्णा निशितप्रज्ञाः शरवच्छरेण तुल्यं स्तोकमल्पमेव स्पृशन्ति । अन्तः कार्यस्य चान्तरं विशन्ति । अल्पायासेन बहु कार्यं साधयन्तीत्यर्थः । बहुस्पृशा व्यापिना स्थूलेन मन्देन, बृहता चाश्मनोपलेन तुल्यमश्मवत् । 'तेन