SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। ५३ तुल्यं क्रिया चेद्वतिः' । बहिरेव । कार्यस्याकार्यस्य चेति भावः । स्थीयते स्थितिः क्रियते । मूढो हि अल्पस्य हेतोर्बहु प्रयासं करोति । मूषकग्रहणाय शिखरिखननं परिहासास्पदं भवतीति भावः । तद्धितगतेयमुपमा ॥ आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च । महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥७९॥ आरभन्त इति ॥ किंचाज्ञा अल्पं तुच्छमेवारभन्ते प्रक्रमन्ते । काममत्यन्तं व्यग्राः, त्वरिताश्च भवन्ति । न च पारं गच्छन्तीति भावः । कृतधियः शिक्षितबुद्धयस्तु महारम्भा महोद्योगा भवन्ति । निराकुला अव्यग्राश्च तिष्ठन्ति । पारं गच्छन्तीति भावः ॥ अथ प्रज्ञावानपि न प्रमादित्याह उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः। हन्ति नोपशयस्थोऽपि शयालुमंगयुर्मुगान् ॥ ८० ॥ उपायमिति ॥ उपायमास्थितस्य प्राप्तस्यापि । उपायेनैव कार्य साधयतोऽपीत्यर्थः । किमुत व्यग्रतयेति भावः । प्रमाद्यतोऽनवधानस्य । 'प्रमादोऽनवधानता' इत्यमरः । अर्थाः प्रयोजनानि नश्यन्ति । तथाहि-शयालुर्निद्रालुः । आलुचि शीङो वक्तव्यत्वादालुच् । मृगान्यातीति मृगयुर्व्याधः । 'मृगरवादयश्च' इत्यौणादिकः कुप्रत्ययान्तो निपातः । 'व्याधो मृगवधाजीवो मृगयुर्लुब्धकश्च सः' इत्यमरः । उपशेरतेऽस्मिन्नित्युपशयो मृगमार्गस्थायिनो व्याधस्यात्मगुप्तिस्थानं गर्तविशेषः । 'एरच्' इत्यच्प्रत्ययः । तत्र तिष्ठतीत्युपशयस्थोऽपि मृगान हन्ति । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ एवं प्रज्ञायां आवश्यकत्वमुक्तम् , तथोत्साहस्याप्याह उदेतुमत्यजन्नीहां राजसु द्वादशस्वपि । जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१ ॥ उदेतुमिति ॥ जेतुमिच्छुर्जिगीपुरेक एव द्वादशस्वपि राजसु मध्ये द्वादशस्वादित्येषु दिनकृद्यो दिनकरणे व्याप्रियमाण आदित्यः स इवेहामुत्साहमत्यजन्प्रयुञ्जान एव । न तु निरुद्योग इति भावः । उदेतुं कल्पते उदयाय प्रभवति । उत्साहशक्तिरेव प्रभुशक्तेरपि मूलमित्यर्थः । 'नानालिङ्गत्वाद्धेतूनां नानासूर्यत्वम्' इति श्रुतेः प्रतिमासमादित्यभेदावादशत्वं तच्चैकस्यैव द्वादशात्मकत्वम् 'द्वादशात्मा दिवाकरः' इत्यभिधानात् । ते चार्यमादयः पुराणोक्ता द्रष्टव्याः । राजानस्तु 'अरिमित्रमर्मित्रं मित्रमित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरस्सराः ॥' पञ्चेति शेषः । 'पाणिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ॥' पाणिग्राहासारः आक्रन्दासारश्वेत्यर्थः। अत्र चत्वार इति शेषः । एवं नव भवन्ति । विजिगीषुर्दशमः। 'अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः समर्थों व्यस्तयोर्वधे । मण्डलाद्धहिरेतेपा
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy