________________
५४
शिशुपालवधे. मुदासीनो बलाधिकः ॥' इति मध्यमोदासीनाभ्यां सह द्वादश वेदितव्याः । पूर्णोपमा ॥ उपायमास्थितस्येत्यत्र राजा न प्रमायेदित्युक्तम् , अप्रमादप्रकारमाह
बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चकः ।
चारेक्षणो दूतमुखः पुरुषः कोऽपि पार्थिवः॥ ८२॥ बुद्धिशस्त्र इति ॥ बुद्धिरेव शस्त्रं यस्य स बुद्धिशस्त्रः । अमोघपातित्वात्तस्या इति भावः । प्रकृतयः स्वाम्यादिराज्याङ्गानि । 'राज्याङ्गानि प्रकृतयः' इत्यमरः । ता एवाङ्गानि यस्य सः । तद्वैकल्ये राज्ञो वैकल्यं स्यादिति भावः । घना दुर्भेदा संवृतिर्मनगुप्तिरेव कञ्जुकः कवचो यस्य स तथोक्तः । मन्त्रभेदे राज्यभेदादिति भावः । चरतीति चरः । पचाद्यच् । स एव चारो गूढपुरुषः । प्रज्ञादित्वात्स्वार्थिकोऽण्प्रत्ययः । 'चारश्च गूढपुरुषः' इत्यमरः । स एवेक्षणं चक्षुर्यस्य स चारेक्षणः । अन्यथा स्वपरमण्डलवृत्तान्तादर्शनात् । 'अन्धस्येवान्धलग्नस्य विनिपातः पदे पदे' इति भावः । दूतः संदेशहरः । 'स्यात्संदेशहरो दूतः' इत्यमरः । स एव मुखं वाग्यस्यासौ दूतमुखः । अन्यथा मूकस्येव वाग्व्यवहारासिद्धौ तत्साध्यासाध्यकार्यप्रतिबन्धः स्यादिति भावः । एवंभूतः पार्थिवः कोऽपि पुरुषोऽन्य एवायम् । लोकविलक्षणः पुमानित्यर्थः । अतो राज्ञा बुद्ध्यादिसंपन्नेन भवितव्यम् । एतदेवाप्रमत्तत्वम् । अन्यथा स्वरूपहानिः स्यादिति भावः । अत्र कोऽपीति राज्ञो लोकसंबन्धेऽपि तदसंबन्धोक्त्या तद्रूपातिशयोक्तिः । सा च बुद्धिशस्त्र इत्यादिरूपकनियूंढेति तेन सहाङ्गाङ्गिभावेन संकरः ॥ चतुर्थोपायसाध्य इत्यादिना यत्क्षाश्रमेव कर्तव्यमुक्तं तत्रोत्तरमाह- .
तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः ।
नैकमोजः प्रसादो वा रसभावविदः कवेः ॥ ८३ ॥ तेज इति ॥ कालं जानातीति कालज्ञस्तस्य । अयं काल इति विदुष इत्यर्थः। 'आतोऽनुपसर्गे कः' न तु 'इगुपध-' इत्यादिना कविधिः । समासे कर्मोपपदस्यैव बलवत्त्वभाषणात् । तस्य महीपतेस्तेजः क्षात्रमेवेति वा क्षमैव वा एकान्तं नियमो न नास्ति, किंतु यथाकालमुभयमप्याश्रयणीयमित्यर्थः । तथा हि-रसाजशृङ्गारादीन्भावान् , निर्वेदादींश्च वेत्ति यस्तस्य रसभावविदः । भावग्रहणं संपातायातम् । कवेः कवितुरेकं केवलमोजः प्रौढप्रबन्धत्वं वा एकः प्रसादः सुकुमारप्रबन्धत्वं वा न । किंतु तत्र हि रसानुगुण्येन यथायोग्यमुभयमप्युपादेयम् । दृष्टान्तालंकारः ॥ ___ यदुक्तं 'क्रियासमभिहारेण विराध्यन्तं सहेत कः' इति तत्रोत्तरमाह
कृतीपचारोऽपि परैरनाविष्कृतविक्रियः ।
असाध्यः कुरुते कोपं प्राप्ते काले गदो यथा ॥ ८४ ॥ १ 'कृतापराधोऽपि' इति पाठः.