SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः। कृतापचार इति । परैः शत्रुभिः कृतः अपचारोऽपकारः, अपथ्यं च यस्य सः, तथाप्यनाविष्कृतविक्रियोऽन्तर्गुढविकारः। अत एवासाध्योऽप्रतिसमाधेयः सन् गदो यथा रोग इव । 'इववद्वा यथाशब्दः' इति दण्डी। काले बलक्षयावसरे प्राप्ते सति कोपं कुरुते । प्रकुप्यतीत्यर्थः । तदुक्तम्-'वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः । तमेव चागते काले भिन्द्याटमिवाश्मना ॥' इति ॥ इतश्च क्षन्तव्यमिदानीमित्याह मृदुव्यवहितं तेजो भोक्तुमर्थान्प्रकल्पते। प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया । ८५ ॥ मृद्विति ॥ मृदुना मृदुवस्तुना व्यवहितमन्तर्हितं तेजः अर्थान्भोक्तुं प्रकल्पते प्रभवति । तथाहि-प्रदीपोऽभ्यन्तरस्थया मध्यस्थया दशया वया॑ । 'दश वर्ताववस्थायां स्नेहस्तैलादिके रसे' इति विश्वः। स्नेहं तैलादिकमर्थमादत्ते । अन्यथा स्वयमेव निर्वापादिति । ततः शान्तिपूर्वमेव क्षात्रं फलतीति सर्वथा प्रथमं क्षन्तव्यमिति भावः । विशेषेण सामान्यसमर्थनादर्थान्तरन्यासः॥ तर्हि पौरुषं मा भून्नित्यं, क्षममाणस्य दैवमेव श्रेयो विधास्यतीत्याशङ्कयाह - नालम्बते दैष्टिकतां न निषीदति पौरुषे । शब्दार्थों सत्कविरिव द्वयं विद्वानपेक्षते ॥ ८६ ॥ नालम्बत इति ॥ विद्वानभिज्ञः दिष्टे मतिर्यस्येति दैष्टिकः । दैवप्रमाणक इत्यर्थः । 'दैवं दिष्टं भागधेयम्' इत्यमरः । 'अस्तिनास्तिदिष्टंमतिः' इति ठक् । तद्भावं दैष्टिकतामेव नालम्बते । सर्वथा यद्भविष्यस्य विनाशादिति भावः । तथा पौरुषे केवलपुरुषकारेऽपि । युवादित्वादण्प्रत्ययः । न निषीदति न तिष्ठति । दैवप्रातिकूल्ये तस्य वैफल्यादिति भावः । किंतु सत्कविः सत्कवयिता शब्दार्थाविव तयोः काव्यशरीरत्वादिति भावः । यथाह वामनः- 'अदोषौ सगुणौ सालंकारी शब्दार्थों काव्यम्' इति । द्वयं पौरुषं, दैवं चापेक्षते । अतः पौरुषमप्यावश्यकम् , किंतु काले कर्तव्यमिति विशेषः । पौरुषादृष्टयोः परस्परसापेक्षत्वादिति भावः ॥ अथ क्षान्तेः फलमाह स्थायिनोऽर्थे प्रवर्तन्ते भावाः संचारिणो यथा । रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ ८७ ॥ स्थायिन इति ॥ रस्यते स्वाद्यत इति रसः शृङ्गारादिः । रसतेः स्वादनार्थत्वादस्यन्ते ते रसा इति निर्वचनात् तस्य रसस्य रसीभवतः स्थायिभावस्य रस्यादेः । 'रतिर्हासश्च क्रोधश्च शोकोत्साहभयानि च । जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥' इत्युक्तत्वात् । एकस्यैवाथै स्वादुभावरूपे प्रयोजने भूयांसः संचारिणो व्यभिचारिणो भावा निर्वेदादयः। विभावादीनामुपलक्षणमे१ 'महीभुजः' इति पाठः.
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy