________________
१२८
शिशुपालवधे
कीर्णमिति ॥ अनेकपानां द्विपानां विगाढः प्ररूढो यो मदेन तापः स एव रुक् रोगस्तस्या रुजः शमाय शनैर्मन्दं हस्तैरनुकपोलं कपोलयोः कीर्णं क्षिप्तम् । आकर्णं कर्णपर्यन्तम् । 'आमर्यादाभिविध्योः' इत्यव्ययीभावः । उल्लसितमुत्पतितं विकासि यत्काशं काशकुसुमं तेन सदृशं काशनीकाशम् । नित्यसमासत्वादस्वपदविग्रहः । अतएव 'स्युरुत्तरपदे त्वमी । निभसंकाशनीकाशप्रतीकाशोपमादयः' इत्यमरः । अम्बु पानीयं सितचामरस्य समतां सादृश्यमाप । 'तुल्याथै-' इत्यादिना षष्टी । उपमालंकारः ॥
गण्डूषमुज्झितवता पयसः सरोपं
नागेन लब्धपरवारणमारुतेन । अम्भोधिरोधसि पृथुप्रतिमानभाग
रुद्धोरुदन्तमुसलप्रसरं निपेते ॥ ३६ ॥ गण्डूषमिति ॥ लब्धः परवारणस्य प्रतिगजस्य मारुतो मदगन्धवाहो येन तेन अत एव सरोषं यथा यथा पयसः पानीयस्य गण्डूषं मुखपूरणम् । मुखान्तर्गतं पय इत्यर्थः । 'गण्डूषो मुखपूरणः' इति हलायुधः । द्विलिङ्गत्वेऽपि पुंलिङ्गमेवाह वामनो लिङ्गाध्याहारावित्यत्र । उज्झितवता त्यक्तवता नागेन गजेन । 'मतङ्गजो गजो नागः' इत्यमरः । अम्भोधिरोधसि सागरतीरे। 'दन्तयोरुभयोर्मध्यं प्रतिमानमिति स्मृतम्' । पृथुना प्रतिमानभागेन रुद्धः प्रतिबद्धः उरू दन्तौ मुसलाविव तयोः प्रसारो यस्मिन्कर्मणि तत् । 'अयोग्रं मुसलोऽस्त्री स्यात्' इत्यमरः । निपेते निपतितम् । भावे लिट् । क्रोधवेगादलब्धरोधाः प्रहत्य पारवश्यात्स्वयं चाधोमुखः पपातेत्यर्थः । क्रोधान्धाः किं न कुर्वन्तीति भावः ॥
दानं ददत्यपि जलैः सहसाधिरूढे
को विद्यमानगतिरासितुमुत्सहेत । यदन्तिनः कटकटाहतटान्मिमो
मझदपाति परितः पटलैरलीनाम् ॥ ३७॥ दानमिति ॥ दीयत इति दानं धनं मदश्च । 'दानं गजमदे त्यागे' इति विश्वः । तद्ददति वितरत्यपि । दातर्यपीत्यर्थः । सहसा अकस्मात् । स्वरादित्वादव्ययत्वमिति शाकटायनः । जलैर्जडै रैश्च । 'जलं गोकलले नीरे हीबेरे च जडेऽन्यवत्' इति विश्वः । अधिरूढे आक्रान्ते सति विद्यमानगतिः गत्यन्तरवान्सम. र्थश्च कः पुमानासितुं तत्र स्थातुमुत्सहेत । न कोऽपीत्यर्थः । 'शकष-' इत्यादिना तुमुन् । यस्मान्मिमतोमङ्गुमिच्छोः । मजेः सन्नन्तादुप्रत्ययः । दन्तिनः कटो गण्डः स कटाहः खर्पर इव । 'कटाहः खर्परस्तुपः' इति वैजयन्ती । तस्य तटात्प्रदेशादलीनां पटलैः परितो मङ्क्ष द्राक् । 'द्रााट सपदि द्रुतम्' इत्यमरः ।