________________
शिशुपालवधे
‘विशालं पृथुलं महत्' इत्यमरः । ' वेः शालच्छङ्कटचौ' इति शालच्प्रत्ययः । गृहे रेजे । अपिरयं सर्वत्र विरोधे । विरुद्धवदाभासाद्विरोधालंकारः । 'विरोधः सोsarso faरुद्धत्वेन यद्वचः' इति काव्यप्रकाशलक्षणात् ॥
८०
चिकंसया कृत्रिमपत्रिपतेः कपोतपालीषु निकेतनानाम् । मार्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रिममेव मेने ॥ ५१ ॥ चित्रंसयेति ॥ यस्यां पुरि निकेतनानां वेश्मनाम् । ' वेश्म सद्म निकेतनम् ' इत्यमरः । कपोतान्पक्षिणः पालयन्तीति कपोतपाल्यो विटङ्कापरनामानः स्तम्भाप्रसारिता दारुविशेषाः । ' कपोतपालिकायां तु विटङ्कं पुंनपुंसकम्' इत्यमरः । कर्मण्यणि ङीप् । तासु कृत्रिमपत्रिणां दारुमयपक्षिणां पतेः । कर्मणि पष्ठी । चिक्रंसया क्रमितुमिच्छया । जिघृक्षयेत्यर्थः । क्रमेः सन्नन्तान् 'अप्रत्ययात्' इत्यकारप्रत्यये टाप् । 'स्स्रुक्रमोरनात्मनेपदनिमित्ते' इतीडागमो न भवति । अत्र क्रमेर्वृच्यादिव्यतिरिक्तार्थेऽपि 'अनुपसर्गाद्वा' इति वैकल्पिकस्यात्मनेपदनिमित्तस्यानुपसर्गत्वस्य वैवक्षिकस्य संभवात् । आयतमानतं वा निश्चलमङ्गं यस्य तं मार्जारं बिडालमपि । 'ओतुर्बिडालो मार्जारः' इत्यमरः । जनः कृत्रिमं क्रियया निर्वृत्तमेव मेने । न तु वास्तवमित्यर्थः । 'वितः क्रिः', 'क्रेर्मनित्यम्' इति मम्प्रत्ययः । अनेन कृत्रिमा कृत्रिमभेदो दुर्ग्रह इति शिल्पज्ञानातिशयोक्तिः । अत्र कविकल्पितसादृश्यान्मार्जारजनयोः कृत्रिमा कृत्रिमेषु विपरीतमतिवर्णनाद्भान्तिमदलंकारः ॥
क्षितिप्रतिष्ठोऽपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार ।
अतीतनक्षत्र पथानि यत्र प्रासादशृङ्गाणि वृथाध्यरुक्षत् ।। ५२ ।। क्षितीति ॥ तस्यां पुरि वधूजनः क्षितौ प्रतिष्ठा यस्य स भूमिस्थितोऽपि चन्द्रम् । दिवि स्थितमिति भावः । तत्रापि मुखैरेवारविन्दैरधश्वकारेति विरोधः। स्वलावण्यमहिम्नाधरीचकारेति परिहाराद्विरोधालंकारः । अतीतानि नक्षत्रपथमतीतनक्षत्रपथानि । 'अत्यादयः कान्ताद्यर्थे द्वितीयया' इति समासः । 'द्विगुप्राप्तापन्ना -' इत्यादिना परवल्लिङ्गताप्रतिषेधः । प्रासादशृङ्गाणि वृथा अध्यक्षधिरोहति स्म । अनधिरुयैवाधः करणादिति भावः । रोहतेर्लुङ । 'शल इगुपधादनिट: क्स:' इति चले: क्सादेशः । अत्राधः करणवाक्यार्थस्य श्लेषविरोधोपजीव्यवैयर्थ्य हेतुत्वात्संकीर्णः काव्यलिङ्गभेदः ॥
रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः । यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ ५३ ॥ रम्या इति ॥ यस्यां पुरि युवानो रम्या रमणीया इति हेतोः पताकाः प्राप्तवतीः । उत्क्षिप्तध्वजा इत्यर्थः । अन्यत्र रम्या इत्येवं पताकाः प्राप्तवतीः । प्रसिद्धिं गता इत्यर्थः । 'पताका वैजयन्त्यां च सौभाग्येऽर्कध्वजेऽपि च, ' ' इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्युभयत्रापि विश्वः । विविक्ता विजना विमलाश्च इति हेतो रागं वर्धयन्तीः । 'विविक्तौ पूतविजनौ' इत्युभयत्राप्यमरः । नमइलीका