________________
तृतीयः सर्गः। नन्नीध्राः । 'वलीकनीधे पटलप्रान्ते' इत्यमरः । अन्यत्र नमन्त्यो वल्यस्त्रिवल्याख्या मध्यरेखा यासां ता नमवलीकाः । 'नद्यतश्च' इति कप्प्रत्ययः । 'वली मध्यमरेखोर्मिजीर्णत्वग्गृहदारुषु' इति वैजयन्ती। वलभीः कूटागाराणि । 'कूटागारं तु वलभी' इत्यमरः । वधूभिः सममसेवन्त । वधूसहिता असेवन्तेत्यर्थः । अत्र वधूनां वलभीनां च प्रकृतानामेव धर्मसाधर्म्यणौपम्यावगमात्केवलप्रकृतगोचरा तुल्ययोगिता न श्लेषः । तत्र विशेष्यस्यापि श्लिष्टत्वनियमात् । यथाहुः-'प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः। औपम्यं गम्यते यत्र सा मता तुल्ययोगिता॥' इति ॥
सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम् । मधूनि वक्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः॥५४॥ सुगन्धितामिति ॥ यत्र पुरि न प्रतियत्नः संस्कारः पूर्वो यस्यास्तामप्रतियत्नपूर्वामकृत्रिमाम् । स्वाभाविकीमित्यर्थः । 'प्रतियवस्तु संस्कारः' इति वैज. यन्ती । शोभनो गन्धो येषां तेषां भावस्तत्ता तां सुगन्धितां सौरभ्यम् । 'गन्धस्येत्-' इतीकारः । बिभ्रन्ति बिभ्राणानि । 'वा नपुंसकस्य' इति नुमागमः । मधूनि मद्यानि कामिनीनां वत्राणि च यूनां प्रमदाय प्रीत्यै आमोदकर्मणो वास. नाधानस्य व्यतिहारं परस्परकरणमीयुः । अन्योन्यगन्धेनान्योन्यं वासयामासुरित्यर्थः । इणो लिद । अत्रापि मधूनां वक्राणां च प्रकृतत्वात्तत्पूर्वक एव तुल्ययोगिताभेदः । तेन यूनां मधुवासितवधूवदनपानं वदनवासितगण्डूषपानं च वस्तु व्यज्यते । तेन च निरातङ्कभोगाः पौरा इति गम्यते ॥ रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यहविटङ्कनीडः । रुतानि शृण्वन्वयसां गणोऽन्तेवासित्वमाप स्फुटमङ्गनानाम्५५ रतान्तर इति ॥ यत्र पुरि गृहान्तरेषु वितर्दयो विहारवेदिकाः । 'स्याद्वितदिस्तु वेदिका' इत्यमरः । तासां नियूहा मत्तवारणाख्या अपाश्रयाः । 'नि!हो मत्तवारणः' इति वैजयन्ती । तेषां विटङ्का उपरितन्यः कपोतपालिकाः त एव नीडाः कुलाया यस्य सः । 'कुलायो नीडमस्त्रियाम्' इत्यमरः । वयसां शुकसारिकादिपत्रिणां गणः । 'वयः पक्षिणि बाल्यादौ' इति विश्वः । अङ्गनानाम् । वितर्दिषु रममाणानामिति भावः । रतान्तरे रुतानि रतिकूजितानि शृण्वन् । अन्ते समीपे वसन्त इत्यन्तेवासिनः शिष्याः । 'छात्रान्तेवासिनौ शिष्ये' इत्यमरः । 'शयवासवासिष्वकालात्' इत्यलुक् । तेषां भावस्तत्त्वमाप । समीपे प्रतिशब्दं यथाश्रुतमुच्चारणादेवमुत्प्रेक्ष्यते । अत एव स्फुटमिति व्यञ्जकप्रयोगः ॥
छन्नेष्वपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु । आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि ॥५६॥
छन्नेविति ॥ यत्र पुरि छन्नेष्वाच्छादितेषु । 'वा दान्त-' इत्यादिना वैकल्पिको निपातः । स्पष्टतरेषु । स्फुटतरं लक्ष्यमाणेष्वित्यर्थः । नारीकुचमण्डलेषु स्वच्छानि स्फटिकादिवदतिरोधायकान्यम्बराणि वस्त्राणि केवलं नामतोऽम्बरमिति