________________
तृतीयः सर्गः।
शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनाम् । यस्यामलिन्देपु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि॥४८॥
शुकाङ्गेति ॥ यस्यां पुरि मुग्धाङ्गनाः शुकाङ्गवन्नीलोपला नीलमणयः । मरकतानीत्यर्थः । 'उपलः प्रस्तरे मणौ' इति विश्वः । तैर्निर्मितानां गृहाणां देहल्यो गृहद्वारशाखाधारदारूणि । 'गृहावग्रहणी देहली' इत्यमरः । तासां भासा लिप्तेप्वलिन्देपु द्वारबहिर्भागेपु । 'प्रघाणप्रघणालिन्दा बहिरप्रकोष्टके' इत्यमरः । गोः पुरीपं गोमयम् । 'गोश्च पुरीपे' इति मयद । तस्य गोमुखानि विलेपनानि । 'गोमुखं कुटिलाकारे वाद्यभाण्डे विलेपने' इति विश्वः । न चक्रुरेव । मरकतप्रभायां विलेपनभ्रान्त्येति भावः । अत एव भ्रान्तिमदलंकारः । 'कविसंमतसाहश्याद्वस्वन्तरमतिर्हि यत् । स भ्रान्तिमान्' इत्यलंकारसर्वस्वकारलक्षणात् ॥
गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकिणां कलापैः । हरिन्मणिश्यामतृणाभिरामैगृहाणि नीधैरिव यत्र रेजुः॥४९॥
गोपानसीविति ॥ यत्र पुरि गृहाणि गोपानसीषु वलभीषु । छादनाधारेषु वंशपञ्जरेग्वित्यर्थः । अत एव 'गोपानसी तु वल्लभी छादने वक्रदारुणि' इत्यत्र पटलाधारवंशपञ्जरे इत्याह स्वामी । क्षणमीपत्कालम् । अत्यन्तसंयोगे द्वितीया । आस्थितानामासीलानां चन्द्रकाः । 'समौ चन्द्रकमेचकौ' इत्यमरः । तद्वतां चन्द्रकिणां मयूराणामालम्बिभिर्लम्बमानैः कलापैहै: । 'कलापो भूषणे बहे' इत्यमरः । हरिन्मणयो मरकतानि । 'गारुत्मतं मरकतमश्सगर्भो हरिन्मणिः' इत्यमरः। तद्वच्छयामैस्तृणैरभिरामाणि । हरिततृणमयानीत्यर्थः । तैर्नीधैः पटलप्रान्तैरिव रेजुः । 'वलीकनीभ्रे पटलप्रान्तेऽथ पटलं छदिः' इत्यमरः । छादनपर्यायौ पटलच्छदी । छद्यञ्चलवाचिनी वलीकनीधे । छदेराधारो वंशपञ्जरो गोपानसीति विवेकः । अत एव हरितत्वालम्बनादिगुणक्रियानिमित्तत्वान्नीधैरिवेति जातिस्वरूपोत्प्रेक्षा ॥
बृहत्तुलैरप्यतुलवितानमालापिनद्धैरपि चावितानः।। रेजे विचित्रैरपि या सचित्रैहैविशालैरपि भूरिशालैः ॥५०॥ बृहदिति ॥ या पू: बृहत्यस्तुला उपरिस्थाप्यदार्वाधारभूतानि स्तम्भाग्रपीठानि येषु तैः बृहत्तुलैस्तथाप्यतुलैस्तद्रहितैरिति विरोधः । अनुपमैरित्यविरोधः । 'तुला माने पलशते सादृश्ये राशिभाण्डयोः । गृहाणां दारुबन्धाय पीठ्याम्' इति हैमः । वितानानामुल्लोचानां मालाभिः पङ्क्तिभिः पिनद्धराच्छादितैः तथाप्यवितानैस्तदहितैरिति विरोधः । अशून्यरित्यविरोधः । समस्तवस्तुसमृद्धरित्यर्थः । 'अस्त्री वितानमुल्लोचः' 'वितानं त्रिषु तुच्छकम्' इत्युभयत्राप्यमरः । विचित्रैरालेख्यरहितैरपि सचित्रैः तत्सहितैरिति विरोधः । विचित्रैरद्भुतैरिति परिहारः । 'आलेख्याश्चर्ययोश्चित्रम्' इत्यमरः । विगताः शाला गृहैकदेशा येषां तानि । 'शाला गृहे तरुस्कन्धे शाखापारैकदेशयोः' इति विश्वः । तैः विशालैरपि भूरिशालैः प्रचुरगृहैकदेशविशिष्टैरिति विरोधः । विशालैः पृथुलैरित्यविरोधः ।