________________
७८
.
शिशुपालवधे
पयोमुचो मेघा यासां ताः । अधःकृतमेघमण्डलत्वात् अज्ञातवृष्टिपाता अपीत्यर्थः। विरोधालंकारः । पयसां समूहं पयःपूरं मुहुर्वहन्ति स्म । चन्द्रकान्तनिप्यन्दैरिति भावः । वहेलिट् 'वचिस्वपि-' इत्यादिना संप्रसारणम् । अत्र सौधानां प्रणालीनां च तादृगौन्नत्यपयःपूरासंबन्धेऽपि तत्संबन्धोक्तयातिशयोक्तिः ॥
रतौ हिया यत्र निशाम्य दीपाञ्जालागताभ्योऽधिगृहं गृहिण्यः। विम्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः॥४५॥ रताविति ॥ यत्र पुरि गृहेष्वधिगृहम् । विभक्त्यर्थेऽव्ययीभावः । गृहिण्यः कुलाङ्गनाः अत एव रतौ रतिकाले ह्रिया दीपान्निशाम्य निर्वाप्य । शर्मित्वास्वादेशाभावश्चिन्त्यः । जालागताभ्यो गवाक्षमार्गप्रविष्टाभ्यः । 'जालं गवाक्ष आनायः' इति विश्वः । विदूरात्प्रभवन्तीति वैदूर्याणि बालवायजानि मणयः 'वैदूर्य बालवायजम्' इति विश्वः । 'विदूरायः ' इति ज्यप्रत्ययः । अत्र विदूरशब्दो बालवायजस्यादेशः पर्यायो वा तत्रोपचारितो वा । तेन बालवायाविरेरसौ प्रभवति न विदूरान्नगरात्। तत्र तु संस्क्रियत इत्याक्षेपः प्रत्युक्तः । यदुक्तम्'बालवायो विदुरं च प्रकृत्यन्तरमेव वा । नवै तत्रैति चेद्रयाजित्वरीवदुपाचरेत् ॥' इति तेषां कुड्येषु भित्तिषु । संक्रान्ताभ्य इति शेषः । अत एव तच्छायापत्या पैङ्गल्याद्विडालेक्षणवद्भीषयन्त्य इति भीषणाभ्यो भयंकराभ्यः । नन्द्यादित्वात्कतरि ल्युप्रत्यये टाप् । शशिद्युतिभ्यो बिभ्युर्भीताः । मौरध्यादिति भावः। बिभेतेर्लिद । अत्र लजावारणाय दीपनिर्वापणे न केवलं तदसिद्धिः प्रत्युत भयं चोस्पन्नमित्यनर्थोत्पत्तिरूपो विषमभेदः । विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना या स्याद्विषमालंकृतिर्मता ॥' इति लक्षणात् ॥
यस्यामतिश्लक्ष्णतया गृहेषु विधातुमालेख्यमशवन्तः । चकुर्युवानः प्रतिविम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ४६ यस्यामिति ॥ यस्यां पुरि गृहेष्वतिश्लक्ष्णतया रत्नभित्तीनामतिस्निग्धतया आलेख्यं चित्रं विधातुं निर्मातुमशक्नुवन्तो युवानः प्रतिबिम्बिताङ्गाः स्वयं तासु संक्रास्तमूर्तयः सन्तो रत्नभित्तीः सजीवचित्राः सचेतनचित्रवतीरिव चारित्युत्प्रेक्षा ॥
सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरापाण्डुतयाङ्गनानाम् । यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः॥४७॥ सावयेति ॥ यस्यां पुरि कलधौतधामस्तम्भेषु हेमागारस्तम्भेषु । 'कलधौतं रौप्यहेम्नोः' इति विश्वः । प्रतिमागतानां प्रतिबिम्बगतानां सावर्ण्यभाजाम् । तत्सावादगृहीतभेदानामित्यर्थः । अत एव सामान्यालंकारः । 'सामान्यं गुणसान्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् । अङ्गनानां स्मरापाण्डुतया लक्ष्यैर्विभि. नवर्णत्वा देन गृह्यमाणैरित्यर्थः । कपोलैर्मणिदर्पणानां स्फटिकमुकुराणां श्रीरिव श्रीभैजे प्राप्ता इति निदर्शना । सा चोक्तसामान्यप्रसादलब्धेति तेनास्याः संकरः॥ १ 'निशम्य' इत्येव पाठो वल्लभाङ्गीकृतः.