________________
पञ्चदशः सर्गः।
३७१ वन् । पापिष्टैर्दुर्जयत्वादिति भावः। अधिलोकं लोके। विभक्त्यर्थेऽव्ययीभावः । यशसे नरकविजयीति प्रसिद्धये भुवः सुतं नरकाख्यमजयो जितवानसि । परलोकप्रतारणमात्रपरो न परलोकबाध्योऽसीति भावः । अत्र निरयापराख्यनरकविजयाशक्तेर्विशेषणगत्या तजयस्यार्थिनो हरेनरकासुरविजयप्रकृतिहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गम् । तच्च नरकयोः श्लेप्ममूलाभेदात्तदुत्थापितमिति संकरः ॥
सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।। त्यक्तमपगुण गुणत्रितयत्यजनप्रयासमुपयासि किं मुधा ॥३२॥ सकलैरिति ॥ हे अपगुण निर्गुण, सकलैः सर्वदोषैः समुदितं युक्तं तवेदं वपुः सकलैर्गुणैः शौर्यादिभिस्त्यक्तम् । सर्वगुणान्निवर्तितमेवेत्यर्थः । एवं च लति गुणत्रितयस्य त्यजने त्यागे यः प्रयासः तं मुधा वृथा किं किमर्थमुपयासि । मुमुक्षयेति भावः । यत्र सकलगुणस्य त्यागस्तत्र गुणत्रयस्य त्यागोऽन्तर्गत्या सिद्ध एव, अन्यथा साकल्यव्याघातादित्यर्थः । स्वभावतो निर्गुणस्य परवस्तुनः कुतो गुणत्रयचिन्तेति ध्वनिः । गुणत्रयत्यागनिषेधस्य सकलैरित्यादिवाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥
त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः । हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥ ३३ ॥ त्वयीति ॥ हे जाल्म असमीक्ष्यकारिन् , 'जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः । गुणैरपाकृते निरस्ते गुणैर्दीने त्वयि पूजनं कृतं जगति हासकरं परिहासजनकं इदं पूजनम् । अपेतमूर्धजेऽपगतकेशे शिरसि कङ्कतं दारुदन्तादिमयः केश. प्रसाधनविशेषः। 'प्रसाधने कङ्कतिका' इति विश्वामरौ । ककृतमेव कङ्कतिका । 'कंकणम्' इति पाटे शेखरमित्यर्थः । 'कङ्कणं शेखरे हस्तसूत्रमण्डनयोरपि' इति विश्वः । तदिव नितरामघटते । न संगच्छत इत्यर्थः । 'नजो नलोपस्तिङि क्षेपे' इत्युपसंख्यानमिति निन्दायां तिङयोगेऽपि नलोपः । उपमालंकारः ॥ संप्रति राज्ञां रोषमुत्पादयन्नाहमृगविद्विपामिव यदित्थमजनि मिषतां पृथासुतैः। अस्य बनशुन इवापचितिः परिभाव एव भवतां भुवोऽधिपाः ३४ मृगेति ॥ हे भुवोऽधिपा राजानः, मृगविद्विषां सिंहानामिव भवतां मिषतां पश्यतां भवत्सु मिषत्सु । मिषतो युष्माननादृत्येत्यर्थः । 'पष्टी चानादरे' इति विकल्पाद्भावलक्षणे पष्ठी । इत्थं पृथासुतैः कौन्तेयैः । पितरमेतेषां न वेद्मीति भावः । अस्य कृष्णस्य वनशुनो वनशुनकस्येव । जम्बुकस्येवेति यावत् । अपचितिः पूजा अजनि जनिता। कृतेति यत् । जनेय॑न्तात्कर्मणि लुङ् । एष भवतां परिभावः परिभवः । 'परौ भुवोऽवज्ञाने' इति विभाषा घञ्प्रत्ययः ॥