________________
३७२
शिशुपालवधे अवधीजनंगम इवैष यजि हतवृषो वृषं ननु । स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ३५ अवधीदिति ॥ हतवृषो हत्सुकृतः । 'सुकृतं वृषभे वृषे' इति विश्वः । एष कृष्णो जनंगमश्चाण्डाल इव । 'चाण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः' इत्यमरः । 'गमेश्व' इति संज्ञायां जनपूर्वाद्गमधातोः खच्प्रत्ययः 'अरुर्द्विषत्-' इत्यादिना मुमागमः । वृष वृषभरूपिणमरिष्टाख्यमसुरमवधीद्यदि हतवांश्चेत् । 'लुङि च' इति हनो वधादेशः । अत एव अशुचिवपुरशुद्धात्मा स्पर्श नार्हति । नृपोचितां राजाहाँ प्रतिमाननां पूजां तु नितरां नार्हति । स्पर्शायोग्यो गोघ्नः कथं पूज्य इत्यर्थः । उपमा ॥
यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति । स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ३६ यदीति ॥ अस्य कृष्णस्य मतिः पूतना नाम बालग्रह विशेषः तां प्रति अङ्गनेति हेतोम॒दुः कृपा दया नाजनि यदि न जाता चेत् मास्त्विति शेषः । जनेः कर्तरि लुङ् 'दीपजन-' इत्यादिना चिण्प्रत्ययः । अघृणमनसो निघृणचित्तस्य । स्तने भवं स्तन्यं पयः । 'शरीरावयवाच्च' इति यत्प्रत्ययः । पिबतोऽस्य सा पूतना धर्मतः शास्त्रतो जनन्यपि माता च भवति खलु । स्त्रीति कृपाभावेऽपि मातेति जुगुप्साप्यस्य नास्तीत्यहो न केवलं स्त्रीहन्ता, किंतु मातृहन्ता चायम् । स्तनप्रदाया उपमातृत्वादिति भावः । अत्र स्तनपानस्य विशेषणगत्या जननीत्वहेतुत्वाकाव्यलिङ्गम् ॥
शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् । कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः॥३७॥
शकटेति ॥ तरलश्चपलोऽयं कृष्णः शकटव्युदासः शकटासुरमर्दनं तरुभङ्गो यमलार्जुनभञ्जनं धरणिधरधारणं गोवर्धनोद्धरणम् । तान्यादिर्यस्य तत्तथोक्तं यत्कर्माकरोत्तेन कर्मणा स्थिरचेतसां धीरचित्तानां क इव विस्मयः। न कोऽपी. त्यर्थः । अत्र स्थिरचेतस्कताया विशेषणगत्या विस्मयनिषेधहेतुत्वाकाव्यलिङ्गं वृत्त्यनुप्रासेन संसृज्यते ॥
अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् । खामिवधमसुकरं पुरुषैः कुरुते स यत्परममेतदद्भुतम् ॥३८॥ अयमिति ॥ अपरोऽन्यः ना पशुरिवेति नृपशुरित्युपमितसमासः। कार्याकार्यविवेकशून्यत्वादेवेत्यर्थः । अयं कृष्णः उग्रसेनतनयस्य कंसस्य पशूनवन्गाः पालयन्पुरुषैरसुकरं लोकवेदविगीतत्वाद्दुष्करं स्वामिवधं यत्कुरुते स्म । चकारेति यावत् । एतत्परममद्भुतम् । अभूतपूर्ववदिति भावः । अत्र पश्ववनस्य विशेषणगत्या कंसकृष्णयोः स्वामिभृत्यभावहेतुत्वात्काव्यलिङ्गम् ॥