________________
पञ्चदशः सर्गः। ये चतुस्त्रिंशच्छोकाः 'प्रक्षिप्ताः' इति मन्यमानेन मल्लिनाथेन न व्याख्यातास्ते वल्लभदेवकृतव्याख्यासमेताः प्रदर्श्यन्तेकिमवोचदित्याहननु सर्व एव समवेक्ष्य कमपि गुणमेति पूज्यताम् । सर्वगुणविरहितस्य हरेः परिपूजया कुरुनरेन्द्र को गुणः॥१॥ नन्विति ॥ हे कुरुनरेन्द्र कौरवनाथ, ननु सर्व एव कश्चित्कमपि पौरुषश्रु. तादिकं गुणं समवेक्ष्य पूज्यतामेति पूज्यते । गुणाः पूजाया निमित्तमित्यर्थः । यदि वा गुणं स्वप्रयोजनं पर्यालोच्य । अतश्चैवंस्थिते अस्य हरेर्वानरतुल्यस्य सर्वैर्गुणैः कृतज्ञत्वादिभिर्विरहितस्य विशेषेण रहितस्य परिपूजनात्को गुणः । एनमर्चयित्वा न कश्चिद्गुणस्त्वया प्राप्तः । ननुरमर्प । कमपि । स्वल्पमपीत्यर्थः । हरिर्वानरः तत्साधाद्भगवानत्र हरिविवक्षितः । यथाग्निर्माणवक इति तत्त्वम् । यादृशस्तादृशस्त्वम् । येनागुणं पूजयसीति 'कुरुनरेन्द्र' इत्यामन्त्रणपदेन सूच्यते ॥ __ अत्र कविरतिभक्तत्वाद्भगवतः कथाक्रमागतामपि निन्दामसहमानः प्रतीयमानां स्तुतिं व्यरचयदिति तदर्थोऽधुना व्याख्यायते-हरेर्विष्णोः परिपूजया कोऽगुणः, अपि तु स्वर्गादिको गुणः । नतु गुण एवेत्यर्थः । यदि वा को गुणो नीरागत्वेन । नैवास्य उपकार इत्यर्थः । कीदृशस्य । सर्वैस्त्रिभिरपि गुणैः सत्त्वरजस्तमोभिर्विरहितस्य । 'निर्गुणो हि पुरुषः' इति सांख्याः । अत्र द्वितीया. धमेव तेन भिद्यते। प्रथमार्धे तु न किंचित्प्रयोजनम् । नहि तत्र ते गुणा निन्दागताः। पूज्यतामेतीतीण्धात्वर्थस्य तु अवेक्षत्येकः कर्ता । य एव हि समीक्षते स एव पूज्यते इति ल्यबू भवत्येव । सर्वो गुणान्दृष्ट्वा पूज्यत इत्यर्थः। वक्रश्लेषोऽत्र । निन्दास्तुतावकारः ॥ तदेव निर्गुणत्वं दर्शयितुमाहन महानयं न च विभर्ति गुणसमतया प्रधानताम् । स्वस्य कथयति चिराय पृथग्जनतां जगत्यनभिमानतां दधत्॥२॥
नेति ॥ अयं हरिन महान् सर्वोत्कृष्टः । सर्वनाम सर्वत्र प्रत्यक्षनिर्देशे । कदाचिदन्येषां प्रधानानां गुणैः समः स्यात्तदापि पूज्यः । एतदपि नेत्याहगुणसमतया गुणसाम्येन या प्रधानतां विवक्षितत्वं तदपि न बिभर्ति । यतो. ऽन्येषां गुणैरसम इत्यर्थः । गुणोत्कर्षा द्धि प्राधान्यमाप्यते । कदाचित् महत्प्रधान च न भवेद्यावद्धतोऽपि (?) न तत्स्यात् । तदपि नेत्याह--अनभिमानितां निर. हंकारित्वं दधत्स्वस्यात्मनः चिराय जगति पृथग्जनतां हीनत्वं कथयति । प्राकृतोऽपि निरभिमानो भवति । इति निन्दा ॥
स्तुतिस्तु-अयं न महान महत्तत्त्वं न भवति । गुणानामुढेके साम्याभावे बुद्धेरेव महत्वम् । अथ गुणानां सत्त्वरजस्तमसा समतया या प्रधानता तामपि
शिशु० ३२