________________
अष्टादशः सर्गः।
४५९. उत्प्लुत्यारादर्धचन्द्रेण लूने वक्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते । सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो विभ्ये वल्गतः सासिपाणेः ५३
उत्प्ठत्येति ॥ अर्धचन्द्रेण बाणेन लूने छिन्ने तथापि क्रोधेन दष्टा ओष्टौ यैस्तथाभूता दन्ता यस्य तस्मिन् अन्यस्य योधस्य वने आरादनतिदूरमुप्लुत्य ! 'आरादरसमीपयोः' इत्यमरः । भूयः पुनरपि कण्ठस्य छेदः छिन्नदेशः तत्र लीने स्थिते सति वल्गतो नृत्यतः सासिः पाणिर्यस्य तस्मात्कबन्धादपमूर्धकलेवरात् । 'भीत्रार्थानां भयहेतुः' इति पञ्चमी । सैन्यैर्बिभ्ये भीतम् । भावे लिट् । लूनस्यापि वक्रस्य पुनः स्वस्थानपातित्वावलगनासिधारणाभ्यां कबन्धादप्यकबन्धभ्रान्त्या सर्वे बिभ्यरित्यर्थः । अत एव भ्रान्तिमदलंकारः॥ तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः । नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुचैहास ॥ ५४ ॥
तूर्यारावैरिति ॥ आहिताः संपादिता उत्तालाः प्रस्फुटास्तालाः करपुटादिकालक्रियामानानि येषु तैः। 'तालः कालक्रियामानम्' इत्यमरः। तूर्यारावैर्मृदङ्गादिवाघघोषैस्तथा काहलं भृशं गायन्तीभिः ध्वनन्तीभिः काहलाभिः शुष्कैर्वाद्यविशेषैश्च कारणैः । 'काहलं भृशशुष्कयोः। वाद्यभाण्डविशेषे तु काहलः काहला खले' इति विश्वः । काये अपमूर्ध्नि कलेवरे। अत एव चक्षुःशून्यो दृष्टिरहितो हस्तप्रयोगो यस्मिन्कर्मणि तत्तथा नृत्ते नृत्यति सति । कर्तरि क्तः । कूजन्ध्वनन्कम्बुः शङ्खः । तटस्थ इवेत्यर्थः । उच्चैस्तरां जहास । दृष्टिशून्याभिनयस्य नाट्यशास्त्रविरोधादट्टहा. समकरोदित्यर्थः । व्यञ्जकाप्रयोगाद्दम्योत्प्रेक्षा । 'अङ्गैरालापयेद्गीतं हस्तेनार्थ प्रद. शयेत् । दृष्टिभ्यां भावयेद्भावं पादाभ्यां तालनिर्णयः ॥' इति नाट्य विदः ॥ प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तेराकिरन्ति स्म कंचित् । एकौधेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धा माल्यैः साधुवादद्वयेऽपि ॥५५॥
प्रत्यावृत्तमिति ॥ स्वसैन्ये भङ्गभाजि सति प्रत्यावृत्तमभ्यमित्रं कंचिद्वीरं तुल्यमेककालं मुक्तैः स्वर्णपुङः शरविशेषैः एकौघेन एकप्रहारेण द्विषन्तः आकिरन्ति स्म । सिद्धाः खेचराः माल्यैर्दिव्यमालाभिः । चातुर्वर्ष्यादित्वात्प्यप्रत्ययः । आकिरन्ति स्म । द्वयेऽपि द्विषन्तः सिद्धाश्च साधुवादैः साधु साध्विति वाक्यराकिरन्ति स्म । एतत्रितयमपि युगपत्प्रवृत्तमित्यर्थः । अत्र स्वर्णपुङ्खसुरमाल्यसाधुवादानां प्रकृतानामेव तुल्यकालैकौघप्रवृत्तिसाम्यादौपम्यावगमास्के. वलप्रकृतास्पदा तुल्ययोगिता ॥ बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैर्ग्रहीतुम् । संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः ससरे वारणानाम् ५६
बाणेति ॥ बाणैराक्षिप्ताः पातिताश्चारोहाः सादिनो येभ्यस्तानि अत एव शून्यानि रिक्तान्यासनानि आस्तरणानि येषाम् । अत एवान्यैः सैन्यैः परसैनिकै