________________
शिशुपालवधे
ग्रहीतुं प्रक्रान्तानामारब्धानाम् । समन्तादवरुध्यमानानामित्यर्थः । अत एव संर. ब्धानां क्षुभितानां अत एव आजिभूमौ भ्राम्यतामनवतिष्ठमानानां वारणानां वा. रैर्वृन्दैः वारी बन्धनस्थानम् । 'वारः सूर्यादिदिवसे वारो वरणवृन्दयोः । वारी कटीभबन्धन्योः' इति विश्वः । सस्मरे स्मृता । तद्धर्मयोगादिति भावः । कर्मणि लिट् । अत्र शून्यासनत्वादीनां विशेषणगत्या वारीस्मरणहेतुत्वाकाव्यलिङ्गम् ॥ पौनःपुन्यादसगन्धेन मत्तो मृगन्कोपालोकमायोधनोाम् । पादे लग्नामत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥५७।।
पौनःपुन्यादिति ॥ अत्र आयोधनोा युद्धभूमौ पौनःपुन्यात् । पुनःपुनरावृत्तेरित्यर्थः ! ब्राह्मणादित्वात्ष्यन्प्रत्ययः। अव्ययानां भमात्रे टिलोपस्य सायंप्रातिकाद्यर्थमुपसंख्यानमिति टिलोपः । अस्रगन्धेन । रक्तगन्धाघ्राणादित्यर्थः । मत्त इभेन्द्रो महागजः कोपाल्लोकं जनं मृद्गन्क्षुन्दन् पादे लग्नामीषदसमाप्तां पाशी. कल्पां पाशबन्धसदृशीम् । 'पाशस्त्वश्वादिबन्धनम्' इति विश्वः । 'बह्वादि. भ्यश्च' इति विकल्पादीकारः । अभाषितपुंस्कत्वात् 'घरूप-' इत्यादिना इस्वो न भवति । आयतां दीर्घा मालामाचकर्ष । पाशीकल्पेत्यत्र तद्धितगता पूर्णोपमा । कश्चिन्मूच्र्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य । उच्छश्वास प्रस्थिता तं जिघृक्षुर्व्याकूता नाकनारी मुमूर्छ ।।५८।।
कश्चिदिति ॥ गाढः प्रहारो यस्य सः कश्चिद्वीरो मूर्छामेत्य वारणस्य शीतैः शीकरैः पुष्करतुषारैः सिक्तः सन् उच्छश्वास उज्जीवति स्म, किंतु तं मूर्छामागतं जिवृक्षुर्ग्रहीतुमिच्छुः । ग्रहेः सन्नन्तादुप्रत्ययः । प्रस्थिता । तं वरीतुमागतेत्यर्थः । नाकनारी व्यर्थाकूता तदुजीवनाद्विफलमनोरथा सती मुमूर्छ । अत्राकृतवैयर्थ्यस्य विशेषणगत्या नाकनारीमूर्छा हेतुत्वाकाव्यलिङ्गं मूर्छासंबन्धातिशयोक्त्या संकीर्यते ॥ लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः । से मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्रचन्द्रैः ॥ ५९॥
लूनग्रीवादिति ॥ अपरस्य सायकेन लूनग्रीवाच्छिन्नकण्ठात् अत एवं द्यामाकाशं प्रति आशु उच्चैरुत्पतिष्णोरुत्पतनशीलात् । 'अलंकृञ्-' इत्यादिना इष्णुच्प्रत्ययः । अत एव सिंहिकाया अपत्यं पुमान्सँहिकेयो राहुः । 'तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुतुदः' इत्यमरः। 'स्त्रीभ्यो ढक्' । तमनुकरोतीति तदनुकारात् । तत्सदृशादित्यर्थः । कर्मण्यण्प्रत्ययः । रौद्राकारागीषणाकृतेरस्य वीरस्य आननान्मुग्धैः सुन्दरैरप्सरसां वरेव चन्द्रस्त्रेसे त्रस्तम् । भावे लिट् । अत्र राहुहेतुकबासस्य चन्द्र एव संभवाद्वऋचन्द्ररिति रूपकं सिद्धम् । तस्य सैंहिकेयानुकारादिति स्पष्टोपमापेक्षत्वात्संकरः ॥