________________
४५८
शिशुपालवधे
त्यर्थः । 'सर्वनाम्नस्तृतीया च' इति चकारात्षष्टी । व्योम्नि आसीनानामवस्थितानाम् । 'ईदासः' इति शानच ईकारः । स्वर्गस्त्रीणाममरनारीणामर्पयामास नूनम् ॥ कंचिद्रादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन । हस्ताग्रेण प्राप्तमेवाग्रतोऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् ॥ ४९ ॥
कंचिदिति ॥ दूरादायतेनान्तःक्षतेन विक्षतेन अत एव दृढीयसा प्रासेन प्रोतं स्रोतो यत्र तेन हस्ताग्रेण करणेन अग्रतः प्राप्तमपि कंचिद्भटें ग्रहीतुमादातुं वारणस्यानीश्वरस्य भाव आनैश्वर्यमसामर्थ्यमभूत् । 'नजः शुचीश्वर-' इत्यादिना नपूर्वपदोभयपदवृद्धिः । अत्रानैश्वर्यासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ तन्वाः पुंसो नन्दगोपात्मजायाः कंसेनेव स्फोटिताया गजेन । दिव्या मूर्तिव्योमगैरुत्पतन्ती वीक्षामासे विसितैश्चण्डिकेव ॥५०॥
तन्वा इति ॥ गजेन स्फोटिताया विदारितायाः पुंसः कस्यचिद्वीरस्य तन्वाः शरीरारकंसेन स्फोटितायाः नन्दगोपात्मजाया नन्दकन्याया इवोत्पतन्ती दिव्या मूर्तिः चण्डिकेव नन्दकन्याशरीरादाविर्भवन्ती कालिकेव विस्मितोमगैः खेचरैर्वीक्षामासे वीक्षिता । ईक्षतेः कर्मणि लिट् । 'इजादेश्व गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः । मनुष्यभावमुत्सृज्य देवभावं गतेत्यर्थः। उपमा व्यक्ता । पुरा किल दुरात्मनः कंसस्य प्रतारणाय भगवदाज्ञया तन्मायाशक्तिनन्दगोपाजाता कंसेन हिंसितेति पौराणिकाः ॥ आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण । सास्थिस्वानं दारुवदारुणात्मा कंचिन्मध्यात्पाटयामास दन्ती ५१
आक्रस्येति ॥ दारुणात्मा क्रुद्धचित्तो दन्ती एका जङ्घामग्रपादेनाक्रम्यान्यां जङ्घामुच्चैरुन्नतेन करेणाददान आकर्षयन् । सास्थिस्वानं भज्यमानास्थिचटचटाशब्दयुक्तं यथा तथा कंचिद्वीरं दारुवाकाष्ठवन्मध्यात्पाटयामास । मध्यं विभज्य पाटयामासेत्यर्थः । ल्यब्लोपे पञ्चमी । उपमालंकारः ॥ शोचित्वाग्रे भृत्ययोर्मृत्युभाजोर्यः प्रेम्णा नो तथा वल्लभस्य । पूर्व कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथान्तः॥५२॥
शोचित्वेति ॥ ऋच्छतीत्यर्यः । 'अर्यः स्वामिवैश्ययोः' इति यत्प्रत्ययान्तो निपातः । अग्रे समक्षमेव मृत्युभाजोमरणं गतयोभृत्ययोः शोचित्वा वल्लभस्यैतयोर्मध्ये प्रियभृत्यस्य संबन्धिना प्रेम्गा। तद्गतप्रेम्णेत्यर्थः । तथा तेन प्रकारेणान्तर्दाहं संतापं नो आप । यथा येन प्रकारेणेतरस्याऽवल्लभस्य पूर्व जीवनकाले प्रसादं प्रीतिदानाद्यनुग्रहं न कृत्वा पश्चात्तापाद्धतोऽयमस्माभिरप्रीणित एव प्राणान्प्रादादित्यनुशयाद्दाहमाप। प्रियभृत्यमरणादप्यसमानितभृत्यमरणमेव खामिनो दुःसहदुःखहेतुरासीदित्यर्थः । स्वभावोक्तिः ॥