________________
४५७
अष्टादशः सर्गः। दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव । भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥ ४५ ॥
दूरोत्क्षिप्तेति ॥ मत्तो हस्तिराजः करीन्द्रः दूरादुक्षिप्तेन प्रास्तेन अत एव क्षिण सत्वरेण चक्रेण कृत्तं अत एव भूमौ लोलमानं लुठमानम् । 'लोलतेस्नात्मनेपदित्वात्' 'ताच्छील्यवयोवचनशक्तिषु चानश' इति ताच्छील्ये चानश प्रत्ययः । अत एव 'लोलमानादयश्चानशी'ति वामनः । भीमं भयंकरं स्वं स्वकीयमेव हस्तं सरोषः सन् पादेनाङ्किणा असृक्पङ्केन पङ्कीभूतेनासृजा पिनष्टीत्यसृक्पङ्कपेषम् । 'स्नेहने पिपः' इति णमुल । पिपेष । कषादित्वादनुप्रयोगः। रक्तपङ्केन स्नेह द्रव्येण ममर्देत्यर्थः । क्रुद्धमत्तयोः कुतो विवेक इति भावः । अत्र पेषणासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ आपस्कारालूनगात्रस्य भूमिं निःसाधारं गच्छतोऽवा खस्य । लब्धायामं दन्तयोयुग्ममेव स्खं नागस्य प्रापदुत्तम्भनत्वम् ॥४६॥
आपस्कारादिति ॥ गात्रमूलमापस्कारं आपस्कारादामूलात् । आङो विकल्पादसमासः । लूनगात्रस्य च्छिन्नजङ्घस्य । 'द्वौ पूर्वपश्चाजङ्घादिदेशी गात्राऽवरे क्रमात्' इत्यमरः । अत एवावाङ्मुखस्य सतः साधारं सावलम्बनं न भवतीति निःसाधारं यथा तथा भूमि गच्छतः । पतत इत्यर्थः । नागस्य लब्धायाम जातदेयम् । आयतमित्यर्थः । स्वं स्वकीयं दन्तयोयुग्ममेवोत्तम्भनत्वमवलम्बनत्वं प्रापत् । जवाच्छे देऽपि दन्तावष्टम्भादपतित इत्यर्थः । अत्र स्वभावातिशयोक्त्योः संसृष्टिः ॥ लब्धस्पर्श भूव्यधादव्यथेन स्थित्वा किंचिद्दन्तयोरन्तराले । ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः ॥४७॥ ___ लब्धस्पर्शमिति ॥ भूव्यधात् । दन्ताभ्यां भुवो विद्धत्वादित्यर्थः । 'व्यधजपोरनुपसर्गे' इत्यप्प्रत्ययः। अव्यथेन स्वयमविद्धत्वादव्यथेन सतान्येन केनचिद्भटेन दन्तयोरन्तराले किंचिल्लब्धः स्पर्शी यस्मिन्कर्मणि तदन्ताभ्यां भटस्पर्श यथा तथा स्थित्वा ऊर्ध्व प्रसारितेनार्धासिना खङ्गैकदेशेन च्छिन्नश्चूर्णितो इन्तप्रवेष्टो दन्तवेष्टनं यस्य तं नागं जित्वा सद्य एव उत्तस्थे उत्थितम् । भावे लिट् । अत्रापि तथोत्थानाद्यसंबन्धेऽपि संबन्धोक्तरतिशयोक्तिः ॥ हस्तेनाग्रे वीतभीतिं गृहीत्वा कंचिद्यालः क्षिप्तवानूर्ध्वमुच्चैः ।। आसीनानां व्योम्नि तस्यैव हेतोर्दिव्यस्त्रीणामर्पयामास नूनम् ॥४८॥
हस्तेनेति ॥ व्यालो दुष्टदन्ती। 'व्यालो दुष्टगजे सर्प' इति विश्वः । अग्रे वीतभीति निर्भीकम् । भीरोः स्वर्गाभावादिति भावः। कंचिद्वीरं हस्तेन गृहीत्वा ऊर्ध्वमुपयुच्चैः क्षिप्तवान् । उत्प्रेक्ष्यते । तस्यैव हेतोस्तेनैव हेतुना । तद्धरणार्थमेवे
३९ शिशु०