________________
४५६
शिशुपालवधे
सारोऽपसरणं यत्र तत्सेनामध्यं प्राक् पुरा आदिदेवस्य विष्णोः उदरान्तरुदराभ्यन्तरं ब्रह्मा स्रष्टेव गाहते स्म प्रविवेश । पुरा किल बाह्य सिसृक्षुब्रह्मा पूर्वसृष्टिदिदृक्षया विष्णोः कुक्षि प्राविशदिति पौराणिकी कथा । केचिद्ब्रह्मा ब्राह्मणो मार्कण्डेय इति व्याचक्षते, सोऽपि भगवन्महिमावलोकनकौतुकात्तदनुज्ञया महाप्रलये तदुदरं प्रविश्य बभ्रामेत्यागमः । ब्रह्मा विप्रः प्रजापतिः' इत्यमरः । उपमालंकारः ॥ भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः । निर्भीकत्वादाहवेऽनाहतेच्छो हृप्यन्हस्ती हृष्टरोमेव रेजे ।। ४१ ।।
भृङ्गेति॥ शृङ्गश्रेणीव श्यामभासां कृष्णवर्णानां नाराचानामयोमयेषुविशेषाणां समूहैः विद्धो नीरन्ध्रो निर्विवरो देहो यस्य सः। तथापि निर्भीकत्वादाह. वेऽनाहतेच्छः अव्याहतोत्साहः अत एव हृष्यन्मोदमानो हस्ती हृष्टरोमेव हर्षात्पुलकित इवेत्युत्प्रेक्षा । 'हृषेर्लोमसु' इति विकल्पादिडभावः । रेजे शुशुभे । 'फणां च सप्तानाम्' इति विकल्पादेत्वाभ्यासलोपौ ॥ आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन । निश्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा॥४२॥ __ आतानेति ॥ रोषभाजः क्रुद्धस्य नागराजस्य महेभस्य कटान्ताद्गण्डस्थलानिश्श्योतन्ती प्रागेव स्रवन्ती दानस्य मदस्य धारा आताम्राभा क्रोधादरुणवर्णा जज्ञे जाता। आहो धूर्गतेन पुरोगतेन यत्रा मार्गणे शरे आशूत्खाते लोहितस्य क्षतजस्येव धारा जज्ञे । जनेः कर्तरि लिट् । किमियं क्रोधारुणा मदधारा शरो. द्धरणजन्या रक्तधारा वेत्युभयकारणसंभवात्सादृश्याच्च संशयः स च विकल्पितसादृश्यमूल इत्यलंकारः॥ क्रामन्दन्तो दन्तिनः साहसिक्यादीपादण्डौ मृत्युशय्यातलस्य । सैन्यैरन्यस्तत्क्षणादाशशङ्के स्वर्गस्योचैरर्धमार्गाधिरूढः ॥४३॥
कामन्निति ॥ मृत्युशय्यातलस्यान्तकपर्यङ्करूपस्य । 'अधस्वरूपयोरस्त्री तलम्' इत्यमरः । ईषादण्डौ दारुविशेषौ तत्सदृशौ । आयतावित्यर्थः । दन्तिनो दन्तौ। सहसा वर्तत इति साहसिकः । 'ओजः सहोम्भसा वर्तते' इति ठक् प्रत्ययः । तस्य भावात्साहसिक्यात्क्रामन् । साहसवानित्यर्थः । अन्यस्तत्क्षणादुच्चैरूव॑स्य स्वर्गस्य अर्धश्चासौ मार्गश्चेति तदर्धमार्गाधिरूढ इति सैन्यैराशशके उत्प्रेक्षित इत्युत्प्रेक्षा ॥ कुर्वज्योत्स्नाविग्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् । खड्गाघातैर्दारितादन्तिकुम्भादाभाति स प्रोच्छलन्मौक्तिकौघः ४४
कुर्वन्निति ॥ ज्योत्स्नाविग्रुषां तुल्यरूपः चन्द्रिकाबिन्दुस्वरूपः तारः शुद्धः । 'तारो मुक्तादिसंशुद्धौ' इति विश्वः । खड्गावातैदारिताद्दन्तिकुम्भात्योच्छलन्नुत्पतन्मौक्तिकोघो मुक्तापुञ्जो द्यामाकाशं ताराजालसारां नक्षत्रशबलितां तारकितां कुर्वन्नित्युत्प्रेक्षा । 'सारः शबलपीतयोः' इति विश्वः । आभाति स्म बभौ ॥