________________
अष्टादशः सर्गः।
४५५ आकम्प्राणैः केतुभिः संनिपातं तारोदीर्णग्रेवनादं व्रजन्तः। मनानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्खनन्ति स नागाः ॥३७ ___ आकम्प्रागैरिति ॥ आकम्प्राणि दन्तोत्खननसंक्षोभाभृशं कम्प्राण्यग्राणि येषां तैः केतुभिर्ध्वजैः संनिपातं संघर्ष व्रजन्त इति दुःखहेतूक्तिः । नागा गजास्तारमुच्चैरुदीर्ण उत्पन्नः ग्रैवाणां ग्रीवासूत्पन्नानां शृङ्खलभूषणादीनां नादो यस्मिन्कर्मणि तत्तथा अन्यद्विपानां प्रतिगजानामङ्गे गाढं मन्नानन्तःप्रविष्टान्दन्तान्दुःखादुत्खनन्ति स्म । तेषां गाढमन्नत्वात्स्वयं केतुभाराकान्तत्वाच्च कृच्छ्रादुजहुरित्यर्थः । अत्रोक्तभारमजनयोर्विशेषणगत्या दुःखोत्खननहेतुत्वात्काव्यलिङ्गम् ॥ उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्यामीपादन्तः कुञ्जरं शात्रवीयम् । ' शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥ ३८ ॥
उत्क्षिप्येति ॥ ईथे लाङ्गलदण्डाविव दन्तौ यस्य स ईषादन्तो महादन्तो दन्ती । 'ईषा लाङ्गलदण्डः स्यात्' इत्यमरः । प्रस्फुरन्तं प्राणोत्क्रमणदुःखादुल्लसन्तं शात्रवस्येदं शात्रवीयं कुञ्जरं रदाभ्यां दन्ताभ्यां उच्चैरुत्क्षिप्योर्ध्वमुद्यम्य शृङ्गे शिखरे प्रोतः स्यूतः प्रावृषेण्यः प्रावृषि भवोऽम्बुदो यस्य तस्य । 'प्रावृष एण्यः' इत्येण्यप्रत्ययः । उर्वीधरस्य गिरेः साम्यं सादृश्यं स्पष्टं प्रापत् । आफ्नोतेलुंङि 'पुषादि-' इति च्लेरङादेशः ॥ भन्नेऽपीभे खे परावर्त्य देहं योद्धा साधु वीडया मुञ्चतेषून् । साकं यन्तुः संमदेनानुबन्धी दूनोऽभीक्ष्णं वारणः प्रत्यरोधि॥३९॥
भग्नेऽपीति ॥ स्वे स्वकीये इभे गजे भन्नेऽपि देहं स्वाङ्गं परावर्त्य प्रतिपक्षाभिमुखमावर्त्य । वृतेय॑न्ताल्लयप् । अण्यन्तस्त्वपपाठः। अकर्मकस्य कर्मानन्वयात् । बीडया सामिषून्मुञ्चता । इषुमोक्षणेन स्वगजभङ्गबीडां निरस्यतेत्यर्थः । योड्रा भग्नेभस्थेन भटेन का अभीक्ष्णं दून इषुभिस्तप्तः । 'ल्वादिभ्यः' इति निष्ठानत्वम् । अनुबध्नातीत्यनुबन्धी वारणो यन्तुः प्रतिगजारोहस्य संमदेन साकं स्वेभजयजन्येन हर्षेण सह । 'प्रमदसंमदी हर्षे' इति निपातः । प्रत्यरोधि प्रतिरुद्धः । तत्प्रतिरोधेन तत्संमदस्यापि प्रतिरोधव्याप्तेरिति भावः । 'साकं साधं समं सह' इत्यमरः । अत्र वीडितेषुमोक्षयोः संमदयन्तृप्रतिरोधयोश्च कार्यकारणयोस्तत्पौर्वापर्यरूपातिशयोक्त्या सहभावोक्तेः सहोक्तिः संकीर्यते ॥ व्याप्तं लोकैदुःखसभ्यापसारं संरम्भित्वादेत्य धीरो महीयः । सेनामध्यं गाहते वारणः स ब्रह्मैव प्रागादिदेवोदरान्तः॥४०॥
व्याप्तमिति ॥ वारणः कश्चिदन्ती संरम्भित्वात्क्रोधित्वात् । 'संरम्भः संभ्रमे कोपे' इति विश्वः । धीरो निर्भीकः सन् एत्यागत्य महीयो विपुलं लोकैर्जनैः अन्यत्र भुवनैश्च व्याप्तम् । 'लोकस्तु भुवने जने' इत्यमरः । अतो दुःखलभ्योऽप