________________
४५४
शिशुपालवधे
द्राधीयांस इति ॥ द्राधीयांसो दीर्घतराः । 'प्रियस्थिर-' इत्यादिना दीर्घस्य ईयसुनि द्राघादेशः । संहताः सुघटिताः अत एव स्थेमभाजः स्थैर्यभाजः। "प्रियस्थिर-' इत्यादिना स्थिरशब्दस्येमनिचि स्थादेशः । चारवो रम्या उदय़ा उन्नताश्च ते चारूदग्राः । विशेषणसमासः । तीक्ष्णतां नैशियं अत्यजन्तः सामजानां गजानां दन्ता दन्तैः प्रतिगजविषाणैराहताः सन्तो भङ्ग भेदं जग्मुः बभक्षुः । सामजाता दन्तिनस्तु स्वयं भङ्गं पराजयं न जग्मुः । दन्तभङ्गेऽपि स्वयं न परावर्तन्त इत्यर्थः । अत्रापरावर्तित्वेन वर्ण्यतया प्रकृतत्वादुपमेयानां दन्तिनामुपमानदन्तापेक्षया अभग्नत्वेनाधिक्योक्तेर्व्यतिरेकस्तुल्ययोगिताया बाधक इति गमयितव्यम् ॥ मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदच्छायचञ्चच्छिखाग्रः। लग्नोऽप्यग्निश्वामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स सैन्यैः॥३४॥ ___ मातङ्गानामिति ॥ मातङ्गानां दन्तिनां दन्तसंघट्टजन्मा दन्तसंघर्षोत्थः हेमच्छेदच्छायानि कनकपरागवर्णानि चञ्चन्ति चलन्ति च शिखाग्राणि ज्वाला. ग्राणि यस्य सोऽग्निः मञ्जिष्ठया ओषधिविशेषेण रक्तेषु माञ्जिष्टेषु । 'तेन रक्तं रागात्' इत्यण्प्रत्ययः । 'मञ्जिष्टा विकसा जिङ्गी' इत्यमरः । चामरेषु लग्नोऽपि सैन्यैः प्रकामं न व्यज्यते न विविच्यते स्म । सावादिति भावः । अतः सामा. न्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरकता' इति लक्षणात् । स च विशेषणोत्थकाव्यलिङ्गसंकीर्णः ॥ ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः। । योगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ ३५ ॥
ओषामासे इति ॥ मत्सरो वैरमेवोत्पातवात आकस्मिकवायुस्तेनालि. ष्यतां संयुज्यमानानां दन्तानामेव मारुहां वृक्षाणां घर्षणेनोत्था जन्म येषां तैर्वह्निभियौगान्तैर्वा युगान्तभवैर्वह्निभिरिव वारणानामुच्चैरुन्नतैः मूर्धा व्योमेव तस्मिन्मूर्धव्योम्नि नक्षत्रमाला हारविशेषः । 'सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः' इत्यमरः । ज्योतिर्मण्डलं च ओषामासे । दग्धेत्यर्थः । 'उष दाहे' इति धातोः कर्मणि लिट् । 'उपविदजागृभ्योऽन्यतरस्याम्' इत्याम्प्रत्ययः । लघू. पधगुणः 'कृञ्चानुप्रयुज्यते लिटि' इत्यस्तेश्चानुप्रयोगः । अत्र नक्षत्रमालयोरभेदाध्यवसायेन निर्देशाद्रूपकश्लेषसंकीर्णेयमुपमा ॥ सान्द्राम्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम्। दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ३६
सान्द्राम्भोदेति ॥ सान्द्रं च तदम्भोदश्यामलं च तस्मात्सामजानां गजानां वृन्दे शोणितैः शोणिमानमारुण्यं नीता दन्ताः अम्भोनिधीनां वारिनिधीनां वारिणीव विद्रुमाणां प्रवालानामिमे वैद्रुमाः । 'विद्रुमः पुंसि प्रवालं पुनपुं. सकम्' इत्यमरः । कन्दो मूलपिण्डः तस्योद्भेदाः प्ररोहा इव शोभामापुरित्युपमा ॥