________________
४५३
अष्टादशः सर्गः। मुखपटं यावत्तर्ण नापनिन्ये नापचकार तावदन्यनागाधिरूढः प्रतिगजाधिरोहः एक एककालीनः पातो येषां तैरेकपातैर्युगपत्पातिभिरिति शीघ्रतोक्तिः । काद. म्बानां शराणाम् । 'कदम्बमार्गणशराः' इत्यमरः । पूगैातैरसीव्यत् । चक्षुषा सह तद्वासः स्यूतवानित्यर्थः । सीव्यतेर्लङ् । अत्र चक्षुषः सीवनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ आस्थदृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य । मनस्योच्चबहेभारेण शङ्कोरावबाते वीक्षणे च क्षणेन ॥ ३० ॥
आस्थदिति ॥ यन्ता प्रमत्तः सन् प्रत्यरीभमरिगजं प्रति । आभिमुख्ये. ऽव्ययीभावः । यातुर्गन्तुः । यातेस्तृच् । द्विपस्य दृष्टेराच्छदमावरणम् । पुंसि संज्ञायां घः । आस्थन्निरस्तवान् । 'अस्यतिवक्तिख्यातिभ्योऽङ्' इति च्लेरडादेशः 'अस्यतेस्थुक्' इति थुगागमः । मन्नस्य मुखनिमग्नस्य शङ्कोः शल्यायुधस्य । 'वा पुंसि शल्यं शङ्कुर्ना' इत्यमरः । उच्चैर्बर्ह भारेण पिच्छपटलेन वीक्षणे चक्षुषी क्षणेनावबाते आवृते । वृणोतेः कर्मणि लिट् । अन्योन्यसमुच्चयचकाराभ्यामावरणनिरासे पुनरावरणयोरेककाले संबन्धोक्तेरतिशयोक्तिः ॥ यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चित्यान्यश्चेतसा भावितेन । अन्त्यावस्थाकालयोग्योपयोगं दधेऽभीष्टं नागमापद्धनं वा ॥३१॥
यत्नादिति ॥ अन्यः गजारोहः भावितेनालोचितेन चेतसा सुस्थितत्वादनपायिदेशत्वादनाशमनपायं निश्चित्य यत्नाद्रक्षन् वञ्चकेभ्यस्त्राय( माणः )न् सन् । अन्त्यावस्थाकाले साधनान्तरकाले नाशकाले योग्योपयोग अत एवाभीष्टं नागं गजमापद्धनं वापद्धनमिव दधे अन्यतोपसार्य धारयामास । धरतेः स्वरितेत्त्वात्कर्तरि लिट् तङ्॥ अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नवालाः। उन्मूर्धानः संनिपत्यापरान्तःप्रायुध्यन्त स्पष्टदन्तध्वनीभाः॥३२॥ ___ अन्योन्येषामिति ॥ इभा गजाः अन्योन्येषां परस्परेपाम् । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यावित्वम् । 'समासवच्च बहुलम्' इति विकल्पादसमासत्वपक्षे पूर्वपदस्य प्रथमैकवचनं वक्तव्यम् । उद्भिद्यन्ते एग्विति उद्भेदाः । 'अकर्तरि च कारके संज्ञायाम्' इत्यधिकरणाथै घञ् प्रत्ययः । दानोद्भेदान्कटादिमदस्थानानि पुष्करैर्हस्ताग्रैः । 'पुष्करं करिहस्ताग्रे' इत्यमरः । आमृशन्तो जिघ्रन्त उच्चकैरुन्नता भुग्नवालाः प्रह्वीकृतपुच्छाः । 'वाल: केशे शिशौ मूर्खे बालो वाजीभपुच्छयोः' इति विश्वः । उन्मूर्धान उन्नतमस्तकाः सन्तः स्पष्टदन्तध्वनि यथा तथा संनिपत्यापरान्तैः सह प्रायुध्यन्त । दिवादिकस्य युध्यतेः कर्तरि लङ् । स्वभावोक्तिः ॥ द्राधीयांसः संहताः स्थेमभाजश्वारूदग्रास्तीक्ष्णतामत्यजन्तः। दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः॥३३॥