________________
'४५२
शिशुपालवधे वा समुद्रे । 'उपमायां विकल्पे वा' इत्यमरः । आजौ बभ्राम । एकवीरस्य कुतो भयमित्यर्थः ॥ यावचक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य । सेनाखानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः॥२६॥
यावदिति ॥ व्युत्थानं गजोत्थापनं जानातीति व्युत्थानज्ञः हस्तिना चरतीति हस्तिचारी यन्ता । मदस्य बोधनायोत्थापनायाञ्जनमुद्दीपनं कर्म यावन्न चक्रे तावत्प्रागेव । असमाप्ते विधावित्यर्थः । सेनास्वानात् । सेनाकलकल श्रवणादित्यर्थः । दन्तिनामात्मना स्वयमेव स्थूला महत्यो दानकुल्या मदसरितः प्रावहन्निति दन्तिनामुत्साहातिरेकोक्तिः । अञ्जनात्याग्दानसंबन्धोक्तरतिशयोक्तिः ॥ क्रुध्यन् गन्धादन्यनागाय दूरादारोढारं धृतमूर्धावमत्य । घोरारावध्वानिताशेषदिके विष्के नागः पर्यणंसीत्स्व एव ॥२७॥
क्रुध्यन्निति ॥ दूरादरत एव गन्धान्मदगन्धाघ्राणात् अन्यनागाय प्रतिगजाय क्रुध्यन् । तं जिघांसुरित्यर्थः । 'क्रुधद्रुह-' इत्यादिना संप्रदानत्वम् । नागो धूतमूर्धा विधूतमस्तकः सन् । आरोढारं यन्तारमवमत्यावधूय घोरारावैरिणकन्दनैः ध्वानिता अशेषदिशो येन तस्मिंस्तथा उच्चैराक्रोशतीत्यर्थः । शैषिकः कप्प्रत्ययः । स्वे स्वकीय एव । स्वपुत्र एवेत्यर्थः । 'पूर्वादिभ्यो नवभ्यो वा' इति विकल्पान्न मिन्नादेशः । अत एव स्वे स्वपुग्ने विष्क इति श्लिष्टगत्या व्याख्याय पुत्रस्यापि ज्ञातित्वान्न सर्वनामसंज्ञेति वल्लभोक्तिः प्रामादिकी। विपके विंशतिवर्षके डिम्भे । 'विष्को विंशतिवर्षकः' इति वैजयन्ती । पर्यणंसीत् । तिर्यक्प्रजहारेत्यर्थः । 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हलायुधः । 'यमरमनमातां सक्च' इति नमेलङि सगिडागमौ 'नेटि' इति वृद्धिप्रतिषेधः ।। प्रत्यासन्ने दन्तिनि प्रातिपक्षे यत्रा नागः प्रास्तवऋच्छदोऽपि । क्रोधाकान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किंचिन्मदान्धः २८
प्रत्यासन्ने इति ॥ प्रातिपक्षे प्रतिपक्षसंबन्धिनि । 'तस्येदम्' इत्यण् । दन्तिनि गजे प्रत्यासन्ने सति यत्रा सादिना प्रास्तवक्रच्छदोऽपि निरस्तमुखपटोऽपि क्रोधाक्रान्तः अत एव क्रूरं घोरं निर्दारिताक्षः तथापि मदान्धो नागो गजो न किंचिदेव प्रेक्षांचक्रे । किमपि पुरोगतं प्रातिपक्षमन्यद्वा न ददर्शेत्यर्थः । आवरणान्तराभावेऽपि मदावरणस्यानपायादिति भावः । 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः । अत्रानावृतोन्मीलिताक्षस्याप्यदर्शनविरोधस्य मदान्धेनाविरोधाद्विरोधाभासोऽलंकारः॥ तूर्णं यावन्नापनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य । तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैरसीव्यत् ॥ २९ ॥
तूर्णमिति ॥ निषादी यन्ता वारणस्य गजस्य चक्षुर्वारणं नेत्रावरणं वासो