________________
तृतीयः सर्गः।
८५
श्लिष्यद्भिरन्योन्यमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः । परस्परोत्पीडितजानुभागा दुःखेन निश्चक्रमुरश्ववाराः॥६६॥ लिप्यद्भिरिति ॥ अन्योन्येषां मुखाग्रेषु सङ्गेन स्खलन्तः खलीनाः कविका यस्मिन्कर्मणि तद्यथा तथा । 'कविका तु खलीनोऽस्त्री' इत्यमरः । श्लिष्यद्भिः संघृप्यद्भिर्विलोलैः मुहुरुचलगिर्हरिभिस्तुरंगैः करणैः । अश्वान्वारयन्ति ये तेऽश्ववारा अश्वारोहाः परस्परेणोत्पीडितजानुभागाः सन्तो दुःखेन निश्चक्रमुर्निर्जग्मुः । अत्र स्वभावोक्त्यतिशयोक्त्योः संकरः ॥
निरन्तरालेऽपि विमुच्यमाने दूरं पथि प्राणभृतां गणेन । तेजोमहद्भिस्तमसेव दीपेर्द्विपैरसंवाधमयांबभूवे ॥६७॥ निरन्तराल इति ॥ तमसा तिमिरेणेव प्राणभृतां गणेन प्राणिवर्गेण की निरन्तरालेऽपि पूर्व स्वेनैवातिसंकटेऽपि पथि संप्रति दूरं दूरत एव विमुच्यमाने पति । एकत्र दीपभयादन्यत्र द्विपभयाञ्चेत्यर्थः। तेजोमहद्भिर्बलाधिकैः, प्रभासंपन्नश्च । 'तेजो बलं प्रभा तेजः' इति विश्वः । द्विपै-पैरिवासंबाधमसंकीर्णमयांबभूचे जग्मे । न त्वश्वैरिव कृच्छ्रादिति भावः । 'अय गतौ' भावे लिद 'दयायासश्च' इत्याम्प्रत्ययः । स्वतेजमव दरोत्सारिततमस्के दीपा इव तथोत्सारितप्राणिके पथि निरर्गलं द्विपाः प्रययुरित्यर्थः । तमसीति सप्तम्यन्तपाठे तु तमसः पथ्युपमानत्वे द्विपागमनात्पथ इव तमसो दीपागमनात्प्राकृतप्राणिवर्गेण निरन्तरालत्वं पश्चान्मुन्यमानत्वं च न संभवतीत्युपमानोपमेययो(रूप्यं स्यात् । तृतीयान्तपाटे तमसः प्राणिवर्गापमानत्वे तत्सारूप्यसाकल्यात्स एव साधीयानित्यालंकारिकाणां पन्थाः ।।
शनैरनीयन्त रयात्पतन्तो रथाः क्षिति हस्तिनखादखेदैः । सयनसूतायतरश्मिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरंगैः ॥ ६८ ॥ शनैरिति ॥ रयात्पतन्तो धावन्तो रथाः सयत्नैः सूतैः सारथिभिः । 'सूतः अत्ता च सारथिः' इत्यमरः । आयता आकृष्टा ये रश्मयः प्रग्रहाः । 'किरणप्रग्रही रश्मी' इत्यमरः । तैर्भुग्नेषु प्रह्वेपु ग्रीवाणामग्रेषु संसक्ता युगा युग्याः स्कन्धवाह्या दारुविशेषा येषां तैरत एवाखेदेरश्रमैस्तुरंगैः । हस्तिनखात् । हस्तिनखः पूरि मृत्कृटः । 'कूटं पूरि यद्धस्तिनखस्तस्मिन्' इत्यमरः । तस्माच्छनैः क्षितिमनीयन्त नीता इति स्वभावोनिः । यथावद्वस्तुवर्णनात् ॥
बलोभिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः । प्रायेण निष्कामति चक्रपाणी नेटं पुरो द्वारवतीत्वमासीत् ६९ बलोमिभिरिति ॥ बलान्यूमय इव तैर्बलोर्मिभिर्वलयैः कङ्कणैरिव तत्क्षणे हरिनिष्क्रमणक्षण एव हीयमाना अपरिच्यमाना रध्या भुजेव यस्यास्तस्याः अत एवास्याः पुरो द्वारवत्याश्चक्रपाणौ कृष्णे निष्कामति निर्गच्छति सति प्रायेण भूम्ना द्वारवतीत्वं द्वारकात्वम् । स्वस्वरूपमिति यावत् । इष्टं नासीत् । हरिविरहे तद्वैफल्यादिति भावः । द्वारवतीशब्दस्य संज्ञात्वात् 'स्वतलोर्गुणवचनस्य' इति न पुंव
शिशु० ८