________________
शिशुपालवधे मरावतीमिन्द्रनगरीम् । ‘मतौ बह्वचोऽनजिरा-' इति दीर्घः । संज्ञायाम् ‘मादु. पधायाश्व-' इति वत्वम् । आह्वास्त स्पर्धयाहूतवती । अमरावतीमनुचकारेत्यर्थः । वयतेर्लुङ् 'स्पर्धायामाङः' इत्यात्मनेपदम् । ‘लिपि सिचि ह्वश्च' इति 'आत्मनेपदेवन्यतरस्याम्' इति च्लेरङभावपक्षे सिजादेशः । अत्र प्रथमाधे श्लेषेऽपि सिन्धी मेरौ स्थितेति प्रतिबिम्बाभावेन साधम्र्योक्तेः श्लेषानुप्राणितेयमुपमेति संक्षेपः । आह्वाम्तेति सादृश्यप्रतिपादकः शब्दः । स्पर्धते ह्वयते द्वेष्टीत्यनुशासनात् ॥
स्निग्धाञ्जनश्यामरुचिः सुवृत्तो वध्वा इवाध्वंसितवर्णकान्तेः। विशेषको वा विशिशेष यस्याः श्रियं त्रिलोकीतिलकः स एव ६३ स्निग्धेति ॥ स्निग्धं यदञ्जनं तद्वत्तेन च श्यामरुचिः सुवृत्तः सद्वत्तिः वर्तुलश्च । त्रयाणां लोकानां समाहारस्त्रिलोकी । तद्धितार्थ-' इत्यादिना समासः । 'संख्यापूर्वो द्विगुः' इति द्विगुसंज्ञा । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिप्यते' इति स्त्रीत्वे 'द्विगोः' इति ङीप् । तस्यास्तिलको भूषणभूतः स हरिरेव, विशेषको वा । तिलक इवेत्यर्थः । 'इववद्वायथाशब्दो' इत्यनुशासनात् । 'तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्' इत्यमरः । अध्वंसिता वर्णानां ब्राह्मणादीनां कान्तिरौज्वल्यं यस्यास्तस्याः पुरः, अन्यत्राध्वंसितो वर्णो गौरादिः, कान्तिावण्यं च यस्यास्तस्याः। 'वों द्विजादौ शुक्लादी इन्युभयत्राप्यमरः । वध्वा इव श्रियं विशिशेष विशेषितवान् । अनेकशब्दे यमु. रसेत्येके । शब्दमात्रसादृश्याच्छेष इत्यन्ये । श्लेपोपमेत्याह दण्डी ॥
तामीक्षमाणः स पुरं पुरस्तात्प्रापत्प्रतोलीमतुलप्रतापः। वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्ख्या ।। ६४ ॥
तामिति ॥ अतुलप्रतापः स हरिस्तां पूर्वोक्तां पुरमीक्षमाणः पुरस्तात्पूर्वस्यां दिशि । सप्तम्यर्थे तसिल प्रत्ययः । प्रतोली रथ्याम् । 'रथ्या प्रतोली विशिग्वा इत्यमरः । प्रापत्प्राप्तवान् । लुङि 'पुषादि-' इत्यादिना च्लेरडादेशः । वज्राणां तोरणप्रासादादिगतहीरकादिमणीनां प्रभाभिरुद्भासिनी सुरायुधश्रीरिन्द्रचापलधमीर्यस्यां सा । इह वज्रग्रहणं मणिमात्रोपलक्षणम् । अन्यथेन्द्रायुधासाम्यादिति भावः । अन्यत्र वज्रस्य कुलिशस्य प्रभाभिरुद्भासिनी सुरायुधानामितरदेवतायुधानां श्रीर्यस्याः सा । 'वज्रोऽस्त्री हीरके पवौ' इत्यमरः । या प्रतोली देवसेना सुरचमूरिव परैः शत्रुभिरलवथा दुष्प्रधा ॥
प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः । मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्धजिन्यः॥६५।। · प्रजा इति ॥ अरविन्दनाभेर्विष्णोरङ्गात्प्रजा इव । 'यतो वा इमानि भूतानि जायन्ते' इति श्रुतेरिति भावः । शंभोर्जटाजूटतटादाप इव गङ्गाजलानीव विधातुर्मुखाच्छ्रुतय इव मुरजितो हरेर्वजिन्यः सेनाः पुरान्निरीयुर्निर्गताः । मालोप्रमेयम् ॥