________________
तृतीयः सर्गः ।
८३
ध्यावसः' इति कर्मत्वम् । 'भाषायां सदवसश्रुवः' इति वसुप्रत्ययः । जनस्य याः संपदोऽभवन् ता मनसोऽप्येगम्याः । वाचामभूमय इति किमु वक्तव्यमिति भावः । गृहेगृहे कल्पवृक्षसंबन्धातिशयोक्त्या पौराणां देवेन्द्रभोगो व्यज्यते । इह कल्प इत्युपपदं स्वसंज्ञैकदेशो येषामिति व्याख्याने हिरण्यपूर्वं कशिपु मित्यादिवदवाच्यवचनदोषावकाशः ॥
कला दधानः सकलाः स्वभाभिरुद्भासयन्सौधसिताभिराशाः । यां रेवतीजानिरियेष हातुं न रौहिणेयो न च रोहिणीशः ॥ ६० ॥ कला इति ॥ सकलाः समग्राः कलाश्चतुःषष्टिविद्याः, षोडशभागांश्च दधानः । ' कला शिल्पे कालभेदे' इति, 'कला तु षोडशो भागः' इति चामरः । सुधयावलिप्तं सौधं तद्वत्सिताभिः स्वभाभिराशा दिश उद्भासयन् रेवती ककुद्मिकन्या पूषकं भं च जाया यस्य स रेवतीजानिः । 'जायाया निङ्' इति समासान्तो निङादेशः । 'लोपो व्योर्वलि' इति यलोपः । रोहिण्या अपत्यं पुमान्हिणेयो बलभद्रः। ‘स्त्रीभ्यो ढकू' । यां पुरीं हातुं त्यक्तुं न इयेष नेच्छति स्म । लिट् । रोहिणीशश्चन्द्रश्च हातुं न इयेष । अत्र रौहिणेयरोहिणीशयोः परोत्क - र्षावहत्वेन द्वयोः प्रकृतत्वाद्विशेष्यस्याश्लिष्टत्वाच्च केवलप्रकृतविषया तुल्ययोगिता । गतमन्यत् ॥
बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य ।
शरीरिणा जैत्रशरेण यत्र निःशङ्कभूषे मकरध्वजेन ॥ ६१ ॥ बाणेति ॥ यत्र पुरि बाणाहवे बाणासुरयुद्धे व्याहता क्षयं नीता शंभुशक्तिन तस्य हरविजयिनो जनार्दनस्य कृष्णस्यासत्तिं प्रत्यासत्तिमासाद्य । पुत्रत्वं प्राप्येत्यर्थः । शरीरिणा विग्रहवता । न त्वनङ्गेनेति भावः । जेतार एव जैत्रा जयशीलाः । तृन्नन्तात्प्रज्ञादित्वादण्प्रत्ययः । ते शरा यस्य तेन मकरध्वजेन कामेन । प्रद्युम्नरूपेणेति भावः । निःशङ्कं निर्भीकभूषे उषितम् । 'वस निवासे' भावे लिट् । 'वचिस्वपि -' इत्यादिना संप्रसारणम् । 'शङ्का वितर्कभययोः' इति विश्वः । अत्र शंभुशक्तिव्याघातपदार्थस्य विशेषणगत्या निःशङ्कनिवासहेतुत्वोक्तेः काव्यलिङ्गभेदः । पुरा किल भगवान्भक्तवत्सलो धूर्जटिर्बाणप्रेम्णा बाणाभियोधिनं हरिमभियुज्य निर्जित इति पौराणिकाः कथयन्ति ॥
निषेव्यमाणेव शिवैर्मरुद्भिरध्यास्यमाना हरिणा चिराय । उद्रश्मिरत्नाङ्करधानि सिन्धावाह्वास्त मेरावमरावतीं या ॥ ६२ ॥ निषेव्यमाणेवेति ॥ शिवैर्मरुद्भिर्मन्दमारुतैः, अन्यत्र शिवै रुद्वैः, मरुद्भिः मरुद्गणैश्च चिराय निषेव्यमाणेव हरिणा श्रीकृष्णेन शक्रेण चाध्यास्यमाना अधिष्ठीयमाना उदश्मीनां रत्नाङ्कराणां धाम्नि स्थाने । एकत्र रत्नाकरत्वादन्यत्र रत्नसानुत्वाच्चैचेति भावः । सिन्धौ स्थितेति शेषः । या पूर्मेरौ स्थिताम् अमरा यस्यां सन्तीत्य
"
१ 'प्यभूमिर्वाचामभूमिः' इति पाठः.