________________
८६
शिशुपालवधे
द्भावः । अन्यत्र द्वारवतीत्वं द्वारवत्त्वं नेष्टं तस्य हरिनिष्क्रमणहेतुत्वादित्युभयथाप्युपमितभुजवलयगलनहेतुत्वादुपमासंकीर्णेयमनिष्टत्वोत्प्रेक्षा प्रायेणेत्यनेन व्यज्यते ॥
अथासर्गसमाप्तेः समुद्रं वर्णयतिपारेजलं नीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः। घनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ७० ॥ पार इति ॥ मुरारि रनिधेः समुद्रस्य जलानां पारे परतीरे पारेजलम् । 'पारावारे परार्वाची तीरे' इत्यमरः । ‘पारे मध्ये षष्ट्या वा' इत्यव्ययीभावः । तत्संयोगादेकारान्तत्वं च पारेशब्दस्य । आ समन्तान्नीला पलाशानां पत्राणां राशयो यासां ताः । हरितपर्णपूर्णा इत्यर्थः । 'पत्रं पलाशं छदनम्' इत्यमरः । अत एवोत्कलिका ऊर्मयः । 'ऊर्मिरुत्कलिकोल्लोलकल्लोललहरिस्तथा' इति हला. युधः। तासां सहस्रः प्रतिक्षणमुत्कूलिताः कूलमुद्गताः । कूलं प्रापिता इत्यर्थः। उत्कूलशब्दात् 'तत्करोति-' इति ण्यन्ताकर्मणि क्तः । तेषां शैवलानामाभेवाभा यासां ताः। तत्सदृशीरित्यर्थः। घनावलीरपश्यत् । अत्रोत्कूलितशैवलस्य स्वतः सिद्धसंदेहादुपमोत्प्रेक्षयोः संदेहसंकरः ॥
लक्ष्मीभृतोऽम्भोधितटाधिवासान्द्रुमानसौ नीरदनीलभासः। लतावधूसंप्रयुजोऽधिवेलं बहूकृतान्स्वानिव पश्यति स्म ॥७१॥ लक्ष्मीभृत इति ॥ असौ हरिर्लक्ष्मी शोभां, श्रीदेवी च बिभ्रतीति लक्ष्मीभृतस्तान् अम्भोधितटेऽधिवासो येषां तान्नीरदवन्नीलभासो नीलवर्णान् । लता वध्व इवेत्युपमितसमासः । अन्यत्र लता इव वध्व इति शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। ताभिः संप्रयुज्यन्त इति संप्रयुजः संगतान् । विप् । अधिवेलं वेलायाम् । विभक्त्यर्थेऽव्ययीभावः। दुमान्बहूकृताननेकीकृतान्स्वान् स्वकीयविग्रहानिवेत्यर्थः । एवं च पुंलिङ्गतानिर्वाहः । आत्मपरत्वे नपुंसकत्वापातः। 'स्वो ज्ञातावात्मनि स्त्रं त्रिप्वात्मीये स्वोऽस्त्रियां धने' इत्यमरः । पश्यति स्म । श्लेषसंकीर्णेयमुत्प्रेक्षा ॥
आश्लिष्टभूमि रसितारमुच्चैर्लोलवजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥ ७२ ॥
आश्लिष्टेति ॥ आश्लिष्टभूमिमालिङ्गितभूतलमुच्चैस्तारं रसितारं क्रन्दितारं लोलतां चलतामितस्ततः पततां ध्वजानामाकार इवाकारो येषां ते बृहत्तरङ्गा यस्य तं तथोक्तं फेनायमानं फेनमुद्वमन्तम् । 'फेनाञ्चेति वक्तव्यम्' इति क्यङ् । अपां समूह आपम् । 'तस्य समूहः' इत्यण् । तेन गच्छन्तीत्यापगास्तासां पतिं समु. द्रम् । असौ हरिरपस्मारिणमपस्माररोगिणमाशशङ्के । तत्कर्मयोगात्तथोत्प्रेक्षांचक्रे इत्यर्थः । यथाहुनैदानिकाः—'क्रुद्धैर्धातुभिरारतेऽथ मनसि प्राणी मनः संदिशन्दन्तान्खादति फेनमुद्रिति दोःपादौ क्षिपन्मूढधीः । पश्यन्रूपमसक्षितौ निपतति च्यां करोति क्रियां बिभ्यत्स स्वयमेव शाम्यति नते वेगे त्वपस्माररुक् ॥' इति ॥