________________
प्रथमः सर्गः। वृत्तिविषये संख्याशब्दस्य पूरणार्थत्वं विभागादिवत् । अवातरः अवतीर्णोऽसि । सांप्रतं संप्रत्युदूढलोकत्रितयेन । कुक्षाविति शेषः । त्वया धरित्री गुरुः पूज्या, भारवती च क्रियतेतरामतिशयेन क्रियते । 'तिङश्च' इति तरप् । 'किमेत्तिङव्ययघात्-' इत्यादिना आमुप्रत्ययः । लघुकर्ता गुरुकर्तेति विरोधाभासोऽलंकारः । 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति लक्षणात् ॥ निजौजसोज्जासयितुं जगद्हामुपाजिहीथा न महीतलं यदि । समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम् ३७
निजेति ॥ निजौजसा स्वतेजसा जगन्यो द्रुह्यन्तीति जगद्रुहः कंसादयः । 'सत्सूद्विष-' इत्यादिना विप् । तेषां उजासयितुम् । तान्हिसितुमित्यर्थः । 'जासिनिग्रहण-' इत्यादिना कर्मणि शेषे षष्ठी । 'जसु हिंसायाम्' इति चुरादिः। महीतलं नोपाजिहीथा यदि नावतरेश्चेत् । 'ओहाङ् गतौ' लङि थासि रूपम् । ततस्तर्हि समाहितैः समाधिनिष्ठैरपि। सकर्मकादप्याशितादिवदविवक्षिते कर्मणि कर्तरि क्तः । अथवा समाहितः । समाहितचित्तैरित्यर्थः। विभक्तधनेषु 'विभक्ता भ्रातरः' इतिवदुत्तरपदलोपो द्रष्टव्यः । गम्यमानार्थस्याप्रयोग एव लोप इति कैयटः । अनिरूपितोऽगृहीतस्त्वमीश, मादृशाम् । चर्मचक्षुषामिति भावः । विनयोक्तिरियम् । शो दृष्टेः पदं गोचरः कथं स्याः। न कथंचिदित्यर्थः । तस्मा. स्वत्साक्षात्कार एवागमनप्रयोजनमिति भावः ॥ __ननु कोऽयं नियमो यन्ममैवायं दुष्टनिग्रहाधिकार इत्याशङ्कयाऽनन्यसाध्यत्वमे. वाह- . उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे। .. ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नमः ३८
उपप्लुतमिति ॥ विश्वं बिभर्तीति विश्वंभरस्तत्संबुद्धौ हे विश्वंभर विश्वत्रातः । 'संज्ञायां भृतवृजि-' इत्यादिना खच्प्रत्यये मुमागमः । मदोद्धतैः कंसादिमिरुपप्लुतं पीडितं अदो विश्वं पातुं त्वमेव ईशिषे शक्तोऽसि । विश्वंभरत्वादिति भावः । 'ईश ऐश्वर्य' लिटि थासि रूपम् । अत्र वैधम्र्येण दृष्टान्तमाह-क्षपाया. स्तमस्काण्डैस्तमोवगैः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । 'कस्कादिषु च' इति विसर्जनीयस्य सत्वम् । मलीमसं मलिनम् । 'मलीमसं तु मलिनं कच्चरं मलदूषितम्' इत्यमरः । 'ज्योत्स्नातमिस्रा-' इत्यादिना मत्वर्थीयो निपातः । नभः क्षालयितुं रवेः ऋते रविं विना । 'अन्यारादितरर्ते-' इति पञ्चमी । कः क्षमेत शक्नुयात् । न कोऽपीत्यर्थः । अत्र वाक्यद्वये समानधर्मस्यैकस्पेशिषे क्षमतेति शब्दद्वयेन वस्तुभावेन निर्देशात्तत्रापि व्यतिरेकमुखत्वाद्वैधर्येण प्रतिवस्तूपमालंकारः । तदुक्तम् –'सर्वस्य वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथनिर्देशे प्रतिवस्तूपमा' इति ॥