________________
शिशुपालवधे __एवं भगवतो निर्गुणस्वरूपमुक्त्वा संप्रति प्रस्तुतोपयोगितया सगुणमानित्य षद्भिः स्तौतिनिवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः। जगत्रयैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसु भूतलम् ॥ ३४ ॥ - निवेशयामासिथेति ॥ जगत्रयस्यैकस्थपतिरेकाधिपतिरेकशिल्पी च । 'स्थपतिरधिपतौ तक्षिण बृहस्पतिसचिवयोः' इति वैजयन्ती । त्वं हेलयोद्धृतम् । वराहावतारे इति भावः । फणाभृतामोकस आश्रयस्य, सद्मनश्च । 'ओकः सद्मनि चाश्रये' इति विश्वः । एकं छादनमावरणं भूतलमुच्चकैरुन्नतेषु च अहीश्वरः शेष एव स्तम्भस्तस्य शिरःसु मूर्धसु, अग्रेषु च । फणासहस्रष्विति भावः । निवेशयामासिथ निवेशितवानसि । विशतेय॑न्ताल्लिटि थल । 'कृञ्चानुप्रयुज्यते लिटि' इत्यस्तेरनुप्रयोगः । अत्र श्लिष्टाश्लिष्टरूपकयोर्हेतुहेतुमद्भावाच्छृिष्टं परम्परितरूपकम् ॥ अनन्यंगुर्वास्तव केन केवलः पुराणमूर्तेर्महिमावगम्यते । मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरैः करोत्यधः॥३५॥ ___ अनन्येति ॥ न विद्यतेऽन्यो गुरुय॑स्यास्तस्या अनन्यगुर्वाः इत्यनीकारान्तः पाठः । समासाप्राङ्डीषि 'नधृतश्च' इति कप्प्रसङ्गः स्यात् । पश्चात्त्वनुपसर्जनाधिकारात् 'वोतो गुणवचनात्' इति प्राप्नोति । 'ङिति इस्वश्च' इति वा नदीसंज्ञात्वात् 'आपनद्याः' इत्याडागमः । केचित्तु समासान्तविधिरनित्य इति कपं वारयन्ति । तस्याः सर्वोत्तमायास्तव पुराणमूर्तेरमानुषस्वरूपस्य । केवलः कृत्स्नः । 'केवलः कृत्स्न एकः स्यात्केवलश्वावधारणे' इति विश्वः । महिमा केनावगम्यते । न केनापीत्यर्थः । कुतः । मनुष्याजन्म यस्य स मनुष्यजन्मा भवान् । 'अवयॊ हि बहुव्रीहिय॑धिकरणो जन्माधुत्तरपदः' इति वामनः। भवच्छेदकरैः संसारनिवर्तकैर्गुणैर्ज्ञानादिभिः सुरासुरान् । सुरासुरविरोधस्य कार्योपाधिकत्वेनाशाश्वतिकत्वात् 'येषां च विरोधः शाश्वतिकः' इति न द्वन्द्वैकवद्भाव इत्याहुः । अधः करोति । 'शेषे प्रथमः' इति प्रथमपुरुषः । भवच्छब्दस्य युष्मदस्मदन्यत्वेन शेषत्वादिति । मानुष एव ते महिमा दुरवगाहः । अमानुषस्तु किमिति तात्पर्यार्थः । द्वितीयार्थेऽसकृयञ्जनावृत्त्या छेकानुप्रासः ॥ लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः। उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥
लघूकरिष्यन्निति ॥ त्वमतिभारेणोजैन स्वरूपेण भङ्गुरां स्वयं भज्यमानाम् । 'भाभासभिदो घुरच्' । 'भङ्गुरः कर्मकर्तरि' इति वामनः । अमूम् । भुवमित्यर्थः । लघूकरिष्यन्निर्भारां करिष्यन् किल । 'कृस्वस्ति-' इत्यादिनाऽभूततद्भावे विः । 'च्ची च' इति दीर्घः । तृतीया द्यौस्त्रिदिवः स्वर्गस्तस्मात् । 'घजथै कविधानम्।
१ 'अनन्यगुाः ' इति पाठः. २ 'भवोच्छेद' इति पाठ..