________________
१८२
शिशुपालवधे .
मुहुरिति ॥ अलिनादैर्मुहुरुपहसितां प्रतारणार्थेति प्रहस्यमानामिव स्थिता. मेनां कलिकां कोरकं अल्पं कलिं, कलहं च । 'कलहे च युगे कलिः' इति वैजयन्ती । स्त्रीप्रत्ययस्त्वविवक्षितः श्लेषे। नोऽस्माकं किमर्थं वितरसि । हे शठ गूढविप्रियकारिन् , तस्यास्त्वत्प्रियाया धाम्नि भवने वसतिं स्थितिमुपगतेन त्वयाद्यैष वर्तमानो महान्कलिः कलहो दत्तः । स्वदत्त एव महति कलौ स्थिते किं कल्यन्तरेणेत्यर्थः । अत्रापि पूर्ववाक्यार्थस्योत्तरवाक्यार्थहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् । कलिकामिति श्लेषोत्थापितया कोरककलहयोर्भेदे अभेदरूपातिशयोक्त्यानुप्राणितमिति संकरः ॥ इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण । श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥१६॥
कलापकम् । इतीति ॥ इतीत्थं गदितवत्युक्तवती अन्या स्त्री रुषा कान्तं स्फुरितान्युज्वलानि मनोरमाणि च पक्ष्माणीव केशराणि, अन्यत्र केशराणीव पक्ष्माणि यस्य तेन श्रवणनियमितेन श्रोत्रे धृतेन, निरुद्धेन च असिताम्बुरुहेण नीलोत्पलेन, चक्षुषा च समं युगपजघान ताडयामास । एषा खण्डिता । नायकस्तु पृष्टः । 'व्यक्ताङ्गो निर्भयो पृष्टः' इति लक्षणात् । अत्र स्फुरितेत्यादितुल्यधर्मगम्योपमानयोरसिताम्बुरुह चक्षुषोरुभयोरपि ताडनसाधनतयोपात्तत्वेन प्रकृतत्वात्केवलप्रकृता. स्पदा तुल्ययोगिता । लक्षणं तूक्तम् ॥ विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन । तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोपरजोभिरापुपूरे ॥ ५७ ॥
विनयतीति ॥ प्रणयिनि प्रिये सुदृशः प्रियायाः दृशो लोचनात् । एकस्मादेवेति भावः । कुसुमेषु भवं कौसुमं परागं रजःकणम् । तच्चैकमेवेति भावः । आननानिलेन निजमुखफूत्कारेण विनयत्यपनयति सति तदहितयुवतेः तत्सपल्याः अक्ष्णोईयमपि । न त्वेकमेवेति भावः। रोषा एव रजांसि तैरभीक्ष्णमापुपूरे। नैकेन रजःकणेन किंचित्स्पृष्टमात्रमिति भावः । पूरयतेः कर्मणि लिट् । पूर्णमित्यर्थः । अत्र रजोविनयस्यान्यत्र रजःपूरणकारणत्वायोगादकारणत्वमेव पूरणमिति विभावनालंकारो रूपकानुप्राणित इति संकरः ॥ स्फुटमिदमभिचारमत्र एव प्रतियुक्तेरभिधानमङ्गनानाम् । वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ।। ५८ ॥
स्फुटमिति ॥ इदं प्रतियुवतेः सपत्या अभिधानं नामधेयं अङ्गनानामभिचारः परमारणकर्म । यथा श्येनेनाभिचरन्यजेतेति । तस्य मन्त्रोऽभिचारमन्त्रः स एव स्फुटमित्युत्प्रेक्षा । यद्यस्माद्वरतनुः स्त्री पत्या भर्ना अमुना सपत्नीनामधेयेनोपहूय मृदुकुसुमेन । मृदुग्रहणमचिरावचितत्वं द्योतयन्देवताभिचारमन्त्राणामनादि