________________
सप्तमः सर्गः।
१८१ व्याख्याने । शक्ति हरतीति शक्तिहरम् । 'हरतेरनुद्यमनेऽच्' इत्यच्प्रत्ययः । न भवतीति शेषः । अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीति वचनात् । भवन्तीति लटः पूर्वाचार्याणां संज्ञा । सर्वस्यापि भीरूणां शक्तिहरत्वादबलाकृतः स्रग्बन्धोऽपि यूनः शक्तिहर इति युक्तमिति सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । खण्डितेयं नायिका । 'ज्ञातेऽन्यासङ्गविकृते खण्डितेाकषायिता' इति लक्षणात् । नायकस्तु 'दक्षिणो भयसंबन्धसहनादिभिस्तुल्यो नैकन दक्षिणः' इति लक्षणार्थप्रतीतेरिति ॥
अथ काचित्खण्डिता निजकान्तमागस्कारिणं पल्लवदानेन प्रसादयन्तं चतुर्भिभर्त्सयितुमारभतेन खलु वयममुष्य दानयोग्याः पिबति च पाति च यासको रहस्त्वां । व्रज विटपममुं ददस्य तस्यै भवतु यतः सदृशोश्चिराय योगः ॥५३॥
नेत्यादि ॥ वयममुष्य दानयोग्या न भवामः खलु, किंतु या असावेवासको त्वत्प्रिया । 'अव्ययसर्वनाम्नामकच्याक्टेः' इत्यकच् । रहो रहसि । 'रहश्चोपांशु चालिङ्गे' इत्यमरः । त्वां पिबति पानं करोति । 'पा पाने' भौवादिकात्कर्तरि लट् । 'पाघ्रा-' इत्यादिना पिबादेशः। पाति रक्षति च । अन्यतो वारयति चेत्यर्थः । 'पा रक्षणे' अदादित्वाच्छपो लुक् । तस्यै अमुं विटान्पातीति विटपं पल्लवम् । 'विटपः पल्लवे पिङ्गे' इति विश्वः । ददस्व प्रयच्छ । 'दद दाने' इति भौवादिकाल्लोट । बज गच्छ । यतो दानाच्चिराय चिरकालात् । चिरार्थेऽव्ययम् । सदृशोरनुरूपयोर्योगो भवतु । उभयोरपि विटपत्वादिति भावः । समालंकारोऽयम् । 'सा समालंकृतियोंगो वस्तुनोरनुरूपयोः' इति लक्षणात् ॥ तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः। ननु जनविदितैर्भवयलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥ ५४॥
तवेति ॥ हे कितव धूर्त, वृथा व्यर्थमेवाहितैः । तत्कार्यस्यान्यथासिद्धत्वादेति भावः। तव संबन्धिभिः क्षितिरुहाणां पल्लवाः पुष्पाणि च तान्येव कर्ण पूरयन्तीति कर्णपूराः कर्णावतंसाः । कर्मण्यण् । तैर्नोऽस्माकं किं तत्साध्यम् । न किंचिदस्तीत्यर्थः । गम्यमानसाधनक्रियापेक्षया कर्णपूराणां करणत्वात्तृतीया । उक्तं च न्यासोढ्योते-'न केवलं श्रूयमाणैव क्रिया निमित्तं कारकभावस्य अपि तु गम्यमानापि' इति । किंतु नन्वङ्ग जनविदितैर्जनेष्वतिप्रसिद्धैः । जनेषु विदितैरिति सप्तमीसमासः । 'क्तस्य च वर्तमाने' इति कृद्योगे षष्ठीप्रतिप्रसवत्वेऽपि 'क्तेन च पूजायाम्' इति षष्ठीसमासनिषेधाजनानामाधारत्वविवक्षायां तदप्राप्तेः। भवयलीकैस्तवाप्रियवचनैः कर्णयुग्मं चिरपरिपूरितं नित्यं पूर्णमेव । अतः परिपूरितस्य पूरणायोगादलमेवैभिरित्यर्थः । अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुत्वेनोपनिबन्धाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥ । मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ५५
शिशु० १६