________________
१८०
शिशुपालवधे
'पुंसि संज्ञायां घः प्रायेण' इति घप्रत्ययः । न सहतेऽत्यन्तमित्यसहतरा । सहेः पचाद्यजन्तान्नन्समासात्तरप्रत्ययः। भरमसहमानेत्यर्थः । कृद्योगात्कर्मणि षष्ठी। अथास्मिन्नवसरे निरवलम्बनं यथा तथा प्रियस्योपरि न्यपतत् । निरवलम्बनत्वानिपपातेत्यर्थः । एषा च प्रौढा । स्वभावोक्तिरलंकारः ॥ उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः । प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोाम् ४९
उपरिजेति ॥ उपरिजान्युपरि जातानि तरोर्जातानि तरुजानि कुसुमानि तानि याचमानां अपचित्य देहीति प्रार्थयमानां प्रथितपृथुपयोधरां प्रशस्तपीवरकुचां मुग्धवधूमकुटिलधियं स्त्रियं परिरम्भलोलुप आश्लेषलालसोऽन्यः कुशलतया वञ्चनापटुतया स्वयं गृहाण । त्वमेवाचिनुष्वेत्यर्थः । इति गम्यमानार्थत्वादुक्त्वेति न प्रयुक्तं पौनरुक्त्यात् । दोामुदासोद्यच्छति स्म । अयं चैकायत्तत्वादनुकूलनायकः । नायिका तु स्वाधीनपतिका प्रौढा च ॥ इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या । अनुरहममनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥५०॥
इदमिदमिति ॥ अन्या स्त्री इदमिदमिति । इदं ग्राह्यमिदं ग्राह्यमित्युक्त्वेत्यर्थः । भूरुहां वृक्षाणां प्रसूनैः पुष्पैः पुरःपुरो मुहुरतिलोभयता प्रलोभयता नाय. केन रहोऽनु अनुरहसमेकान्तम् । 'अन्ववतप्तात्-' इत्यव्ययीभावः समासान्तः । अनायि नीता । तथा हि मनोभूः कामो जनं रन्तुं त्वरयति । देशकालानपेक्षयेति भावः । अत एवाश्चर्यमहो इति । पूर्ववन्नायिकानायकविवेकः । अर्थान्तरन्यासः ।। विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकेऽन्या। अभिपतितुमना लघुत्वभीतेरभवदमुञ्चति वल्लभेऽतिगुर्वी ॥५१॥
विजनमिति ॥ अन्या स्त्री विजनमेकान्तमिति हेतोरमुंवल्लभं क्षणं बलाद्गृहीत्वा आकृष्य अथान्तिके विपक्षं सपत्नीजनं वीक्ष्य लघुत्वभीतेस्तुच्छत्वभयादभिपतितुं मनो यस्याः सा अभिपतितुमनाः । 'तुं काममनसोरपि' इति मकारलोपः । अपसर्तुकामेत्यर्थः । वल्लभे अमुञ्चत्यत्यजति सति । तस्य विपक्षानवेक्षणादिति भावः । अतिगुर्व्यतिगौरववत्यभवत् । स्वयंग्रहलाघवतिरोधानाद्भर्तृवल्लभत्वप्रकाशनाच्चेति भावः । भाग्यवतां सर्व श्रेयसे भवतीति रहस्यम् । एषा त्वतिप्रगल्भव ॥ अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा सजावनद्धः । पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानाम् ५२ __ अधीति ॥ अधिरजनि रजन्याम् । विभक्त्यर्थेऽव्ययीभावः । तस्याः । सपल्या इत्यर्थः । बुद्धिस्थत्वान्नामग्रहणासहत्वाच्च तच्छब्देन निर्देशः। धाम गृहं जगामेति रुषा हेतुना प्रियतमया का स्रजा करणेनावनद्धो युवा पदमपि । अत्यन्तसंयोगे द्वितीया। चलितुं न सेहे न शशाक । तथा हि ससाध्वसानां भयग्रस्तानां किमिव किंवा । इवशब्दो वाक्यालंकारे। इवेतीषदर्थोपमोत्प्रेक्षावाक्यालंकारेष्विति गण.