________________
सप्तमः सर्गः।
१७९ प्रत्ययः । तत्परया तदासक्तया सत्या । कंचिद्यासङ्गं कल्पयन्त्येत्यर्थः । न विविदे अपि किल । न प्रकाशितमिति किमुत वक्तव्यमित्यपिशब्दार्थः । किलेत्यलीके । वस्तुतो विदित्वाप्यविदित्वेव स्थितं वैदग्ध्यात् । अन्यथा तयोर्विश्रम्भविहारवि. घातादिति भावः। मुग्धेयं नायिका । 'उदयद्यौवना मुग्धा लजापिहितमन्मथा' इति लक्षणात् ॥ व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः। यदधयदधरावलोपनृत्यत्करवलयस्खनितेन तद्विवत्रे ॥४५॥
व्रततीति ॥ प्रतिकूला युवतिः प्रतियुवतिः सपत्नी तस्यां व्रततिविततयो लताजालानि । 'वल्ली तु व्रततिलता' इत्यमरः । ताभिस्तिरोहितायां सत्यां प्रियः प्रियाया वदनमधयदपिबदिति यत् । धेटो भौवादिकाल्लङ् । तद्वदजपानमधरावलोपेनाधरखण्डनेन । तजनितव्यथयेत्यर्थः। नृत्यतोश्चलतोः करयोर्वलयानां कङ्कणानां स्वनितेन ध्वनिना विववे विवृतम् । तदेव तस्यास्तदनुमापकमभूदित्यर्थः । अत्रैका हृष्टा अपरा त्वीया॑निर्वेदवतीत्यनुसंधेयम् ॥ विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूलतायाः। रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ॥४६॥
विलसितमिति ॥ वधूः काचित्स्त्री पुरस्तादने धरणिरुहमधिरोहतीति धरणिरहाधिरुट वृक्षाधिरूढा । रुहेः विप् । तस्या लताया विलसितं चेष्टितम् । भावे तः । अनुकुर्वती एवमित्याश्लेषप्रकारमभिनयन्ती ऋजुतया अकुटिलबुद्धितया सखीनां पुरोऽग्रे अकलितोऽविचारितश्चापलमनुचितकरणमेव दोषो यस्मिन्कर्मणि तद्यथा तथा रमणं प्रियमालिलिङ्ग । एषा हौत्सुक्यवती प्रौढा च ॥ सललितमवलम्ब्य पाणिनांसे सहचरमुच्छ्रितगुच्छवाञ्छयान्या । सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्याम् ४७
सललितमिति ॥ अन्या स्त्री उच्छ्रितगुच्छवाञ्छया उन्नतस्तबकजिघृक्षया सललितं सविलासं यथा तथा सहचरं प्रियं पाणिना। औचित्याद्वामेनेति शेषः । अंसेऽवलम्ब्यावष्टभ्य सकलयोः समग्रयोः कलभकुम्भयोः करिकुम्भयोर्विभ्रम इव विभ्रमः सौन्दर्य ययोस्ताभ्यां स्तनाभ्यां रसादागादुरस्यवतस्तरे आच्छादयामास । सहचरमित्यनुषङ्गः। अभिमुखावस्थानादिति भावः । स्तृणातेः कर्तरि लिट् । 'ऋतश्च संयोगादेर्गुणः' 'शपूर्वाः खयः' इत्यभ्याससकारलोपश्च । इयं च प्रौदैव ॥ मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य । उपरि निरवलम्बनं प्रियस्य न्यपतदथोचतरोचिचीपयान्या ॥४८॥
मृद्विति ॥ अन्या स्त्री उच्चतराणामत्युन्नतकुसुमानामुच्चेतुमवचेतुमिच्छया उच्चतरोच्चिचीषया । चिनोतेः सन्नन्तास्त्रियामप्रत्यये टाप् । 'विभाषा चेः' इति कुत्वविकल्पः । मृदुचरणतलाग्रेण दुःस्थितत्वाद्दुःखेन स्थितत्वात्कुचकुम्भयोर्भरस्य