________________
१७८
शिशुपालवधे
महाकविप्रयोगबाहुल्यात् । अव्ययीभावदर्शनं तु प्रायिकमित्युक्तं प्राक् । तथा च सरजसं सरजसो वा यो मकरन्दस्तेन निर्भरासु पूर्णासु । न तु त्वदधरामृतेन नाप्यरजस्केनेति भावः । अन्यत्र रजः स्त्रीपुष्पम् 'स्याद्रजःपुष्पमार्तवम्' इत्यमरः। तत्साहचर्यान्मकरन्दशब्देन शुक्रप्रतीतिः । तेन शुक्रशोणितसंनिपातप्रायास्वित्यर्थः । प्रसवविभूतिषु पुष्पसमृद्धिषु जन्मपरम्परासु च विरक्तः निस्पृहः सन् अमृतं पिब. तीति अमृतप इति नानो वाञ्छयासावमुं तवाधरमोष्टं प्रति आजिहीते आग. च्छति । ध्रुवं सत्यमित्युत्प्रेक्षायाम् । अन्यत्र तु अमृतपो देव इति नामवाञ्छया। देवभूयापेक्षयेत्यर्थः । अथवा । निःश्रेयसप्राप्तीच्छयेत्यर्थः । 'श्रेयो निःश्रेयसामृतम्' इत्यमरः । ध्रुवं शाश्वतं अधरं धरासंबन्धरहितममुं परलोकपथम् । शुभमिह चामुत्र चान्वेतीत्यादौ लोके वेदे चेदमदसोर्लोकद्वये रूढिप्रदर्शनात् । आजि. हीते अन्विष्यतीत्यर्थः । 'ओहाङ् गतौ इति धातोर्लटि श्लो' इति द्विर्भावः । 'ई हल्यघोः' इतीकारः । इह नायिकावदनसौरभहेतुकस्य मधुपानामागमनस्यामृतपनामवाञ्छाहेतुकत्वोत्प्रेक्षणाद्गुणहेतूत्प्रेक्षा । साच ध्रुवमिति व्यञ्जकाप्रयोगाद्वाच्या सती मधुपस्याधरोद्देशस्यासंबन्धेऽपि संबन्धाभिधानादतिशयोक्त्युत्थापि. तेति संकरः । पूर्वोक्ताप्रकृतार्थप्रतीतिस्तु मधुपादिशब्दानामभिधया प्रकृतार्थनियत्रितत्वाच्छब्दशक्तिमूलो ध्वनिरेव न श्लेष इत्यलं विस्तरेणेति ॥
॥विशेषकम् ॥ इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपश्ममाला । अपतदलिभयेनं भर्तुरङ्कं भवति हि विक्लवता गुणोऽङ्गनानाम् ४३
इतीति ॥ इतीत्थं सख्येव जनस्तस्मिन्सखीजने वदति सति निमीलन्त्यौ भया. न्मुकुलीभवन्त्यौ अत एव द्वे आवृत्ती ययोस्ते द्विगुणे द्विरावृत्ते । 'गुणस्त्वावृत्ति. शब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती। कृते द्विगुणिते अत एव सान्द्रतरे अक्षिपक्षममाले नेवलोमपङ्की यस्याः सा। काचिदिति शेषः । अक्षिग्रहणस्य पक्ष्मद्वयद्वैगुण्यलक्ष्मीरक्ष्णोरेवेति द्योतनार्थत्वान्न पौनरुक्त्यम् । अलिभयेन भर्तुरङ्कमुत्सङ्गमपतत्प्राप्तवती । अहो महत्कष्टं यत्कीटकादपि भयमित्याशङ्कयाह-अङ्गनानाम् । न तु पुंसामिति भावः। विक्लवता भीरुता गुणो भवति हि । न तु दोष इति भावः । अत एव जनसमक्षं भर्तुरङ्कारोहणमपि न दोषः । पार्श्वस्थाल. म्बनादीनां भयानुभावत्वात् । कुलकेऽलंकारोऽयमर्थान्तरन्यासः ॥ मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि । तदपि न किल बालपल्लवाग्रग्रहपरया विविदे विदग्धसख्या ४४
मुखेति ॥ यूना अभिनवोढवधूर्नवोढाङ्गनापि बलाबलात्कारात् । मुखं कमलमिवेत्युपमितसमासः । तदल्पं मुखकमलकम् । अल्पार्थे कन्प्रत्ययः। उन्नमय्योधम्य । 'ल्यपि लघुपूर्वोत्' इत्ययादेशः । अचुम्बि चुम्बितेति यत् तच्चुम्बनं विदग्धसख्या चतुरसख्या बालपल्लवाग्राणां ग्रहो ग्रहणम् । 'ग्रहवृदृनिश्चिगमश्च' इत्य