________________
सप्तमः सर्गः।
१७७
इस्य लेखाः । तत्प्रयुक्ता इत्यर्थः । दयितैः दयिताभिः दयितैश्च । 'पुमान्स्त्रिया' इत्येकशेषः । प्रणिदधिरे प्रणिहिताः। लिखिता इत्यर्थः । दधातेः कर्मणि लिद । 'नेर्गदनद-' इत्यादिना नकारस्य णत्वम् । लोकप्रसिद्धलेख्यवैलक्षण्यायतिरे. कालंकारः॥ कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव । अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ४०
कृतेति॥ कृतकृतकरुपा कृतकृत्रिमरोषया कयाचिन्नायिकया त्वमकुशला माल्यग्रथने कुशला नासीति सखीमपास्य निरस्यात्मना स्वयमेवाभिमतमभिप्रायाभिमुखं साभिलाषमाविष्कृतभुजमूलं प्रकाशितकक्षप्रदेशं यथा तथा मूर्ध्नि माला अबन्धि बद्धा । अयं च स्वाभिप्रायव्यञ्जकचेष्टारूपश्चापलाख्यः संचारिविशेषः । नायिका प्रौढैव । 'स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना' इति लक्षणात् ॥
अथ कांचिन्नायिका प्रति सखीवचनं विशेषकेणाहअभिमुखमुपयाति मा स किंचित्त्वमभिदधाः पटले मधुव्रतानाम् । मधुसुरभिमुखाजगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥४०॥ ___ अभिमुखमिति ॥ मधु मकरन्दं व्रतयन्ति भुञ्जत इति मधुव्रता मधुपाः । कर्मण्यण्प्रत्ययः। तेषां पटले अभिमुखमुपयाति आगते सति त्वं किंचिन्मा स्माभिदधा न किंचिदालप । मौनं भजेत्यर्थः। 'स्नोत्तरे लङ्च' 'न माङयोगे' इत्यदप्रतिषेधः । मौनस्य मधुकरबाधानिवृत्तिरेव फलमित्याह-मध्विति । मधुना मद्येन सुरभेर्मुखाजस्य यो गन्धस्तस्य लब्धाभात् । 'स्त्रियां क्तिन्'। अनेन मधुव्रतपटलेन अधित्वत् त्वयि । विभक्त्यर्थेऽव्ययीभावः। 'त्वमावेकवचने' इत्यत्रै. कवचन इत्यर्थनिर्देशादिह विभक्त्यभावेऽप्येकार्थवृत्तेयुष्मदो मपर्यन्तस्य त्वादेशः । अत एव विभक्त्यभावाञ्च त्वादेशोऽत्र चिन्त्य इति वल्लभवचनं चिन्त्यम् । अधि. कमत्यन्तं सर्वत्रेत्यर्थः । मा निपाति मा निपत्यताम् । भावे लुङि चिण्वदृद्धिः । अत्र निपातासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिरलंकारः॥ सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः। ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥४१॥
सरजसेति ॥ किंच मधु पिबतीति मधुपो मधुलिद, मद्यपश्च। 'आतोऽनुपसर्ग कः' । भुवि रोहन्ति जायन्त इति भूरुहां भूरुहाणां भौमानां च देहिनां संबन्धिनीषु सह रजसा सरजसम् । 'अन्यय'मित्यादिना साकल्यार्थेऽव्ययीभावः । 'अचतुर-' इति समासान्तनिपातः । तेन सरजस्क इति बहुव्रीह्यर्थो लक्ष्यः मुख्यो वा।
१ अर्थनिर्देशस्यातित्वानित्याद्यर्थमङ्गीकारेऽपि 'प्रत्ययोत्तरपदयोश्च' इत्यत्रोत्तरपदग्रहणसामर्थ्याद्विभक्तिपरकत्वस्यापि निमित्तत्वेनात्राव्ययीभावत्वेनाव्ययत्वाद्विभक्तेलुका लुप्तत्वेन 'न लुमता-' इत्यनेन प्रत्ययेन प्रत्ययलक्षणप्रतिषेधाद्विभक्तिपरत्वाभावेनादेशश्चिन्त्य एवातो वल्ल. भोक्ती रम्यैव । कविना तु विभक्तिप्रतिरूपकत्वच्छब्देन युष्मत्समानार्थकेन समासोऽङ्गीकृत इति प्रतिभाति ।