________________
१७६
शिशुपालवधे
प्रतिस्थानं संयमितेन नियमितेनांशुकेन । 'अंशुकं सूक्ष्मवस्ने स्यात्' इति विश्वः । वस्त्रेणावृतमङ्गं यस्याः सा तथोक्ता सती ॥ कृतभयपरितोषसंनिपातं सचकितसस्मितवक्रवारिजश्रीः । मनसिजगुरुतत्क्षणोपदिष्टं किमपि रसेन रसान्तरं भजन्ती ॥३७॥
कृतभयेति ॥ किंच कृतः भयपरितोपयोर्भर्तृदर्शनोत्थसाध्वसहर्षयोः संनिपातः संकरो येन तत् । मनसि जातो मनसिजः सरः। 'सप्तम्यां जनेर्डः' । 'हलदन्तात्सप्तम्याः संज्ञायाम्' इत्यलुक् । स एव गुरुराचार्यस्तेन तत्क्षण उपदिष्टम् । तदेकहेतुकमित्यर्थः। किमप्यनिर्वाच्यं रसान्तरं लक्षणया भावान्तरं तच्चेह किलकिंचिताख्यं विवक्षितम् । कृतभयैत्यादीविशेषणेन क्रोधाश्रुहर्षभी. त्यादेः संकरः। किलकिंचितमिति लक्षणार्थस्य प्रतीतेः। रसेन रागेण हेतुना भजन्ती अत एव सचकिता सभयसंभ्रमा। 'चकितं भयसंभ्रमः' इत्यमरः । सस्मिता हर्षात्समन्दहासा वक्रवारिजश्रीर्यस्याः सा सती । अन्न चकितस्मितयोः पूर्वोक्तभयहर्षानुभावत्वेनोक्तिः ॥ अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै । अहरत सुतरामतोऽस्स चेतः स्फुटमभिभूपयति स्त्रियस्वपैव ॥३८॥
पभिः कुलकम् । अवनतेति ॥ अवनतवदनेन्दुः । लज्जया नम्रमुखीत्यर्थः । अधीरतया अष्टतया व्यवधिं किंचिद्व्यवधानम् । 'उपसर्ग घोः किः' इति किप्रत्ययः। इच्छतीव वान्छन्तीव । तथा व्याकुला सतीत्यर्थः । 'आच्छीनद्योर्नुम्' इति विकल्पान्नुमभावः । अस्मै प्रियाय अस्थित । आत्मानं प्रकाशयन्ती स्थितेत्यर्थः । तिष्ठतेः कर्तरि लुङ् । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदं 'स्थाचोरिच' इति सिचः कित्त्वमिकारश्च धातोरन्तादेशः कित्त्वान्न गुणः । इति यदतो हेतोरस्य प्रियस्य चेतः सुतरामहरत । तथाहि पैव स्त्रियोऽभिभूषयति स्फुटम् । प्रसिद्धमित्यर्थः । अतोऽस्या अपि त्रपाभूषितत्वादतिमनोहरत्वं युक्तमिति भावः । कुलकार्थान्तरन्यासौ । मध्या चेयं नायिका । 'लज्जामन्मथमध्यस्था मध्यमोदितयौवना' इति लक्षणात् ॥ किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गके निधेयाः । नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः॥३९।।
किसलयेति ॥ किसलयशकलेषु । वर्तमाना इति शेषः । अवाचनीयाः प्रसिद्धलिपिवैलक्षण्याद्वाचयितुमनींः किंतु केवलं पुलकिनि दयितस्पृष्टत्वात्तत्स्पर्शादेव रोमाञ्चवत्यङ्गके वपुषि निधेया विरहतापशान्त्यर्थमर्पणीयाः। कुतः । नखपदानि नखाङ्का एव लिपयोऽक्षराणि येषु ते न तु प्रसिद्धाक्षराः । अतोऽवाचनीया इत्यर्थः । नैतावतानुतापकारित्वं चेत्याह-तथापि दीपितार्थाः संकेतितसंनिवेशवशादेव द्योतिताभिधेया लिख्यन्त इति लेखाः । कर्मणि घञ्प्रत्ययः । अन