________________
सप्तमः सर्गः।
१७५ अथापरस्याश्चेष्टाविशेषं षभिः कुलकेनाहविततवलिविभाव्यपाण्डुलेखाकृतपरभागविलीनरोमराजिः। कृशमपि कृशतां पुनर्नयन्ती विपुलवरोन्मुखलोचनावलग्नम् ॥३३॥
विततेत्यादि ॥ काचिद्वितताभित्रोन्नमनाद्विश्लिष्टाभिर्वलिभित्रिवलिभिविभाव्याः संलक्ष्याः पाण्डुलेखा रेखाकारा वलित्रयान्तरालभागास्ताभिः कृतपरभागा जनितवर्णोत्कर्षाः अत एव विशेषेण लीना विलीना रोमराजियस्याः सा तथोक्ता । कृशमपि । स्वभावत एवेति भावः । भवलग्नं मध्यम् । 'मध्यमं चाव. लग्नं च मध्योऽस्त्री' इत्यमरः । पुनः कृशतां नयन्ती । अग्रपुष्पग्रहणाय गानविजृम्भणादिति भावः । तथा विपुलतरे उन्मुखे ऊर्ध्वमुखे च लोचने यस्याः सा । अग्रपुष्पग्रहणार्थमिति भावः ॥ प्रसकलकुचबन्धुरो रोरःप्रसभविभिन्नतनूत्तरीयबन्धा । अवनमदुदरोच्छ्सद्दुकूलस्फुटतरलक्ष्यगभीरनाभिमूला ॥ ३४ ॥
प्रसकलेति ॥ प्रसकलाभ्यामतिसमग्राभ्यां कुचाभ्यां बन्धुरमुन्नतानतम् । 'बन्धुरं तून्नतानतम्' इत्यमरः । उद्धुरं निर्भरम् । दृढमिति यावत् । 'ऋक्पूर्-' इत्यादिना समासान्तः । तस्मादुरसः प्रसभाद्वलात्काराद्विभिन्नो विश्लिष्टस्तनूत्तरीयबन्धो यस्याः सा। गात्रविजृम्भणाद्विसस्तकुचावरणेत्यर्थः। किंच अवनमतोऽन्तीयमानादुदरादुच्छसद्विश्लिष्यदुकूलं यस्य तत् अत एव स्फुटतरं यथा तथा लक्ष्यं गभीरमगाधं नाभेर्मूलमन्तरालं यस्याः सा ॥ व्यवहितमविजानती किलान्तर्वणभुवि वल्लभमाभिमुख्यभाजम् । अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ३५
व्यवहितमिति ॥ काचित्पूर्वोक्तविशेषणविशिष्टाङ्गना अन्तर्वणभुवि वनाभ्य. न्तरप्रदेशे । 'प्रनिरन्तः-' इत्यादिना वननकारस्य णत्वम् । व्यवहितं तिरोहितमा. भिमुख्यभाजम् । अभिमुखावस्थितमित्यर्थः । तं वल्लभं प्रियमविजानती किल जानानाप्यजानानेव अधिविटपि विटपिनि वृक्षे। विभक्त्यर्थे ऽव्ययीभावः । सलीलं यथा तथाग्रे वृक्षाग्रे यानि पुष्पाणि तेषां ग्रहणस्य पदेन मिषेण चिरं विलम्ब्य । प्रियाय स्वाङ्गप्रकाशनार्थमिति भावः ॥ अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती । शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी॥३६॥
अथेति ॥ अथ विलम्बानन्तरमत्रास्मिन्प्रिये सखीभिः कथिते सति किलायमत्रैवास्त इति निवेदिते सति क्षणं ससंभ्रमा अपरेव पूर्वविपरीतव्यापारकरणादन्येव भवन्ती । बुद्धिपूर्वकारित्वमज्ञाननाटनेन वञ्चयन्तीत्यर्थः । शिथिलितः पुष्पग्रहणानिवर्तितः कुसुमाकुलः कुसुमव्यापृतोऽग्रपाणिर्यया सा तथोक्ता प्रतिपदं १ 'मिव' इति पाठः.