________________
सप्तमः सर्गः 1
1
१८३ संस्कारभावं द्योतयति । तेनाप्याहता अमूर्च्छत् । यदुच्चारणपूर्वकं कुसुमताडनमपि मारकं सोऽभिचारमन्त्र एव सत्यम् । अन्यथा केवलकुसुमेऽपि तत्प्रसङ्गादित्यर्थः ॥ समदनमवतंसितेऽधिकर्णं प्रणयवता कुसुमे सुमध्यमायाः । व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ५९
समदनमिति ॥ प्रणयवता प्रियेण सुमध्यमायाः प्रियाया अधिक कर्णे । विभक्त्यर्थेऽव्ययीभावः । कुसुमे समदनं यथा तथा अवतंसितेऽवतंसीकृते सति सपदि लघुतां हीनतामगुरुत्वं च व्रजदपि समान एकः पतिर्यस्यास्तस्याः सपत्याः ॥ 'नित्यं सपल्यादिषु' इति ङीप् नकारश्च । तस्मादेव निर्देशात्समानशब्दस्य सभावनिपातः । हिरण्यस्य विकारो हिरण्मयम् । ' दाण्डिनायन -' इत्यादिना निपातः । तन्मण्डनं भारो बभूव । यत्किंचिदपि प्रेम्णा कान्तेन स्वहस्तदत्तं श्राव्यं मण्डनं भवति अन्यन्महार्घमपि हीनं भारश्च । न तु मण्डनमित्यर्थः । लघुगुरुत्वगुणविरोधस्य हीनार्थत्वेन परिहाराद्विरोधाभासभेदः ॥ अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव । श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥ ६० ॥
अवजितमिति ॥ विलासवत्याः स्त्रियः श्रवणकुवलयं श्रवणोत्पलं कर्तृ अहधुना तवाक्ष्णो रुचिरतया रुचिरस्य भावो रुचिरता । भावे तल । तया सौन्दयेणावजितमिति वक्तव्यानुवादः । अत एव लज्जयावनम्य भ्रमररुतैः । तन्मिषेणेत्यर्थः । उपकर्ण कर्णे । विभक्त्यर्थेऽव्ययीभावः । आचचक्ष इवेत्युत्प्रेक्षा ॥ अवचितकुसुमा विहाय वल्लीर्युवतिषु कोमलमाल्यमालिनीषु । पदमुपदधिरे कुलान्यलीनां न परिचय मलिनात्मनां प्रधानम् ६१
अवचितेति ॥ अलीनां कुलानि अवचितानि युवतिभिरुपात्तानि कुसुमानि यासां ताः । रिक्ता इत्यर्थः । वल्ली: पुष्पलता विहाय । कोमलानि माल्यानि मलन्ते धारयन्तीति तासु कोमलमाल्यमालिनीषु । 'मल मल्ल धारणे' इति धातोर्णिनिः 'ऋनेभ्यो ङीप् । युवतिषु पदमुपदधिरे निदधुः । तथा हि मलिनात्मनां कृष्णदेहानां दुष्टचित्तानां च परिचयश्चिरकालसाहचर्यं न प्रधानं न प्रयोजकं, किंतु भुक्तिरेवेति भावः । अतः परिचितलतात्यागो नाश्चर्यमित्यर्थः । अत्र मलिनात्मनामिति कृष्णाङ्गत्वस्य दुष्टचित्तत्वेन सहाभेदाध्यवसायेनार्थान्तरन्यासस्योत्थापनाच्छ्रेपप्रतिभोत्थापितातिशयोक्त्यनुप्राणितोऽयमिति संकरः ॥
अथोत्तरसर्गे जलक्रीडावर्णनाय तदुपोद्वातत्वेनासां वनविहारोद्भवं श्रमातिरेकं सप्तभिः कुलकेन दर्शयतिश्लथशिरसिजपाशपातभारादिव नितरां नतिमद्भिरंसभागैः । मुकुलितनयनैर्मुखारविन्दैर्घन महतामित्र पक्ष्मणां भरेण ॥ ६२ ॥ लथेत्यादि ॥ शिरसि जाताः शिरोरुहाः । 'सप्तम्यां जनेर्ड :' । 'हलदन्तात् - '