________________
सप्तमः सर्गः।
१६९ वेत्येवेत्यर्थः । अतः कथं शीघ्रमायास्यतीति भावः । 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः ॥
इति वदति सखीजनेऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य । तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि १३ इतीति ॥ सखीजने इति वदति सति अपरः कश्चिद्दयिततमामनुरागास्नेहाचिरं प्रतीक्ष्य तदनुगमवशात्तस्याः प्रियायाः काः अनुगमः पश्चाद्मनं तस्य वशादनुसारादवनिं मिमानो मानं कुर्वाण इवेत्युत्प्रेक्षा । माङो लटः कर्तरि शानजादेशः । 'श्लौ' इति द्विर्भावः । अनायतान्यनन्तरालानि पदानि न्यधित निहितवान् । धानो लुङि तङ् 'स्थाध्वोरिच्च' इतीकारः। सिचः कित्त्वान्न गुणः 'हस्वादङ्गात्' इति सकारलोपः । एषा च नायिका स्वाधीनपतिका । 'स्वाधीन. पतिका सा तु या न मुञ्चति वल्लभम्' इति लक्षणात् । हृष्टा चेयम् ॥ अथ काचित्पुरः प्रयातप्रियमेलनाय शीघ्रानुधावनं प्रार्थयमानां सखीमाह
यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि संप्रतीयम् । . द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि सख्या १४
यदीति ॥ हे सखि, मयि लघिमानमागतायां स्वयं गमनेन लाघवं प्राप्तायां तव तिरस्ति यदि संतोषो भवति चेत् । 'तिः संतोषधैर्ययोः' इत्यमरः । इयमेतदवस्थैव संप्रत्यस्मिन्क्षण एव गतास्मि इति । वदन्तीति शेषः । इतिना गम्यमानार्थत्वादप्रयोगः । अन्यथा पौनरुत्यादित्यालंकारिकाः । सख्या सह कोपपदेन कोपव्याजेन । वस्तुतस्तु रागादेवेति भावः । 'व्याजोपदेशो लक्ष्यं च', 'निमित्तं व्यञ्जनं पदम्' इति चामरः । काचिन्नायिका द्रुततराः शीघ्रतराः पदपाताः पादन्यासा यस्मिन्कर्मणि तद्यथा तथा प्रियं वल्लभमापपातानुधावति स्म । एषा च स्वयं प्रवृत्ता स्वलाघवशङ्कितया पूर्व निर्वासितप्रिया, अथेदानी स्वयंप्रवृत्तेः पश्चात्तप्ता चेति गम्यते । अतः कलहान्तरिता । 'कोपात्कान्तं पराणुध पश्चात्तापसमन्विता' इति लक्षणात् ॥
अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः । घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार १५
अविरलेति ॥ सह व्रजन्त्याः । पार्श्वमाश्लिष्य गच्छन्त्या इत्यर्थः। तरुण्याः संबन्धी अविरलपुलकः प्रियाङ्गसंगमात्सान्द्ररोमाञ्चः एकतरोऽन्यतरो द्वयोरन्यः । संनिकृष्ट इति भावः । 'एकाच्च प्राचाम्' इति द्वयोरेकस्य निर्धारणे डतरच्प्रत्ययः। स्तनः प्रियस्य वक्षस्तटमिव तस्य भूः प्रदेशस्तस्यां वक्षस्तटभुवि प्रतिपदं घटितवि. वटितः संयुक्तवियुक्तः । पतितोत्पतितः सन्निति यावत् । विशेषणयोरपि मिथो गुणप्रधानभावविवक्षया 'विशेषणं विशेष्येण बहुलम्' इति समासः । कन्दुकविभ्रमं गेन्दुकशोभाम् । 'गेन्दुकः कन्दुकः' इत्यमरः । बभार । अन्यविभ्रमस्यान्य. संबन्धायोगात्सादृश्याक्षेपे निदर्शना । एषा च प्रियपार्श्वगामिनी। इतःप्रभृति १ 'अनिभृतपदयात'.
ठिोडा १५