________________
१७०
शिशुपालवधे
'मदनरस-७।२३' इत्यतः प्राग्वक्ष्यमाणाः षण्नायिकाः स्वाधीनपतिका हृष्टाः प्रगल्भाश्चेत्यनुसंधेयम् ॥ अथापरस्या अपि गतिविशेषं विशेषकेणाहअशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्धहिःस्तनेन । हृषिततनुरुहा भुजेन भर्तुर्मुदुममृदु व्यतिविद्धमेकबाहुम् ॥१६॥
अशिथिलमित्यादि ॥ अपरा स्त्री दृढं परिरब्धो गृहीतो बृहदहिःस्तनो येन तेन हृषितान्युदञ्चितानि तनुरूहि रोमाणि यस्य तेन । पुलकितेनेत्यर्थः । किबन्तोत्तरपदो बहुव्रीहिः । 'हृषेर्लोमसु' इतीडागमः । भुजेन भर्तुर्वामबाहुना अमृदु गाढं यथा तथा व्यतिविद्धं व्यतिषञ्जितं मृदु कोमलमेकबाहुं निजदक्षिणबाहुं भर्तुः कण्ठेऽशिथिलं दृढमवसज्यासज्य जगामेति भाविना संबध्यते ॥
मुहुरसुसममानती नितान्तं प्रणदितकाश्चि नितम्बमण्डलेन । विषमितपृथुहारयष्टि तिर्यकुचमितरं तदुरःस्थले निपीड्य ॥१७॥ मुहरिति ॥ पुनः किं कृत्वा । नितम्बमण्डलेन करणेन नितान्तमतिशयेन प्रणदिता प्रकर्षेण नदन्ती काञ्ची यस्मिन्कर्मणि तद्यथा तथा । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । मुहुरसुसमं प्राणेशमानती ताडयन्ती । हन्तेराङ्पूर्वाल्लटः शत्रादेशे ङीप् । सकर्मकत्वान्न 'आङो यमहनः' इत्यात्मनेपदम् । विषमिता विषमीकृता पृथुहारयष्टिर्यस्मिन्कर्मणि तद्यथा तथा इतरं पूर्वश्लोको. क्तिबहिःस्तनादन्यम् । दक्षिणमित्यर्थः । कुचं तस्य भर्तुरुरःस्थले तिर्यक निपीड्य । पूर्ववत्संबन्धः ॥
गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा । इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥१८॥
गुरुतरेति ॥ पुनर्गुरुतरः सान्द्रतरः कलो मधुरश्च नूपुरस्यानुनादो ध्वनिर्यस्मिन्कर्मणि तद्यथा तथा सललितं सलीलं नर्तितं व्यापारितं वामं सव्यं पादपयया सा इतरदक्षिणं पदमनतिलोलं भर्तुश्चरणस्खलनादनतिचपलं यथा तथा आदधाना निक्षिपन्ती सती मन्मथेन मन्थरमलसं जगाम। एषा च पार्श्वगामिनी ।।
॥ विशेषकम् ॥ अथान्यासामप्येकैकेन गतिविशेषमाहलघुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या । सकठिनकुचचूचुकप्रणोदं प्रियमवला सविलासमन्वियाय॥१९॥
लध्वित्यादि ॥ अन्या अबला स्त्री तस्य प्रियस्यांसौ पीठे इव तयोर्द्वये निहितावुभौ पाणिपल्लवौ यया सा सती । 'उभादुदात्तो नित्यम्' इति पृथक्सूत्रकरणादेव सिद्धे पुनर्नित्यग्रहणसामर्थ्यावृत्तिविषये उभशब्दस्थानेऽप्युभयशब्दप्र. योगः । यथाह कैयटः । तत्र 'उभादुदात्तो नित्यम्' इति नित्यग्रहणस्येदं प्रयोजनं