________________
सप्तमः
सर्गः 1
१७१
वृत्तिविषये उभशब्दस्य प्रयोगो माभूत्, उभयशब्दस्यैव यथा स्यादित्युभयत्रेत्यादि भवतीति । लघुनी द्रुते ललिते च पदे यस्मिन्कर्मणि तद्यथा तथा कठिनाभ्यां कुचचूचुकाभ्यां स्तनाग्राभ्यां यः प्रणोदो निपीडनं तेन सह यथा तथा । 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः । ' तेन सह -' इत्यादिना समासे 'वोपसर्जनस्य' इति सहशब्दस्य सभावः । गोपदेशत्वात्प्रणोद इति णत्वम् । सविलासं च प्रियमन्वियायानुजगाम । एषा पृष्ठगामिनी ॥
जघनमलघुपीवरोरु कृच्छ्रादुरुनिविरीसनितम्बभारखेदि । दयिततमशिरोधरावलम्विस्वभुजलताविभवेन काचिदूहे ॥२०॥
जघनमिति || काचित्खी अलघू गुरू पीवरौ पीनौ चोरू यस्य तत् उरु• महान् निबिरीसो निबिड : । 'निबिडं निबिरीसं च दृढं गाढं प्रचक्षते' इति वैजयन्ती । 'नेर्बिडज्बिरीसचौ' इति निशब्दाद्विरीसच्प्रत्ययः । स च यो नितम्बः स्त्रीकटिपश्चाद्भागः । 'पश्चान्नितम्बः स्त्रीकट्याः क्लीचे तु जघनं पुरः' इत्यमरः । स एव भारस्तेन खिद्यत इति तथोक्तम् । अभीक्ष्ण्ये णिनिः । जघनं कटिपुरोभागं दयिततमस्य शिरोधरायां ग्रीवायामवलम्बिन्योर्लस्त्रमानयोः स्वभुजलतयोर्विभवेन सामर्थ्येन कृच्छ्रादूहे उवाह । यः स्वरित्वात्कर्त्रभिप्राय आत्मने. पदम् । इयंच पृष्टगामिनी प्रियकण्ठावलम्बा |
अनुवपुरपरेण बाहुमूलग्रहितभुजाकलितस्तनेन निन्ये । निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या २१
अनुवपुरिति ॥ अन्या स्त्री वपुषः पश्चादनुवपुः स्त्रीपृष्टभागः । 'अव्ययं विभक्ति -' इत्यादिना पश्चादर्थेऽव्ययीभावः । बाहुमूलयोः स्त्रीकक्षयोः प्रहितावधःप्रसारितौ भुजौ ताभ्यामाकलितस्तनेन गृहीतस्तनेन कपोले निहितदशनवाससा न्यस्ताधरेण किंचिदावृतमुख्याः सत्याः कपोलं चुम्बतेत्यर्थः । अपरेण कामिना विषमं प्रियाविच्छिष्टं वितीर्णपदं न्यस्ताङ्गि यथा तथा बलादिव निन्ये नीता | आरोग्य नीयमानेव गमयांचक्र इत्यर्थः । एषां पुरोगामिनी ॥
1
अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः । उरसि सरसरागपादलेखाप्रतिभतयानुययावसंशयानः ॥ २२ ॥ अनुवनमिति || अपरः कामी अनुवनं वनंप्रति सखीभिः सह पुरोगतायाः असितभ्रुवः स्वकान्तायाः पदवीमुरसि वक्षसि सरस आर्द्रा रागो लाक्षारञ्जनं यस्य तस्य पादस्य या लेखा विन्यासः सा प्रतिमोपमानं यस्याः सा तत्प्रतिमा तस्य भावस्तत्ता तया । तत्सदृशतयेत्यर्थः । असंशयानोऽसंदिहानः । शीङो लटः कर्तरि शानजा देशः । अनुययौ । अत्र पादरेखाप्रतिमतयेति सादृश्यवस्तुना सुर• तकालीनं पादताडनं वस्तु सरागपदार्थमहिम्ना प्रतीयत इति पदगतः स्वतःसिद्धार्थशक्तिमूलो वस्तुध्वनिः संलक्ष्यक्रमध्वनेर्भेदः ॥