________________
१७२
शिशुपालवधे मदनरसमहौषपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः। सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥२३॥ मदनेति ॥ मदनस्य रसः शृङ्गारः, अन्यत्र रसो जलं तस्य महोघेन महापू. रेण पूर्णा नाभ्य एव हृदास्तेषां परिवाहाः कृताः परिवाहिता जलोच्छासीकृता रोमराजयो यासां ताः । 'जलोच्छवासाः परीवाहाः' इत्यमरः । सरिजलानि ह्रदानापूर्य परित उच्चसन्तीति प्रसिद्धिः। सविभ्रमैः सविलासैः प्रयातैः प्रकृष्टगमनैः प्रणदिताः शिञ्जिता ये हंसकाः पादकटकाः । 'हंसकः पादकटकः' इत्यमरः । अन्यत्र हंसा एव हंसकाः मरालास्त एव भूषणानि यासां ताः स्त्रिय. सरित इव विरेजुः । मदनरसपूर्णेत्यनेन नाभीनां तदुरोधकत्वं व्यज्यते । 'परिवाहितरोमराजय' इति रोमराजीनां परिवाहत्वनिरूपणान्नाभ्य एव हृदा इति रूपकाश्रयणम् । ताः सरित एवेति श्लिष्टविशेषणेयमुपमा । श्लेष एवेत्यन्ये ॥ श्रुतिपथमधुराणि सारसानामनुनदि शुश्रुविरे रुतानि ताभिः। विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥२४॥
श्रुतिपथेते ॥ अनुनदि नदीनां समीपे । समीपार्थेऽव्ययीभावः । 'अव्ययी. भावश्च' इति नपुंसकत्वे द्वस्वत्वम् । ताभिः स्त्रीभिर्जनानां समूहो जनता । 'ग्रामजन' इत्यादिना सामूहिकस्तत्प्रत्ययः । तस्या मनांस्येव शरव्यं लक्ष्यम् । 'लक्ष्य शरव्यं च' इत्यमरः । तस्य व्यधो वेधः। 'व्यधजपोरनुपसर्गे' इत्यप्प्रत्ययः । तत्र पटुः समर्थो यो मन्मथचापनादः स इति शङ्का भ्रमं विदधति विदधानानि : 'वा नपुंसकस्य' इति वैकल्पिको नुम्प्रतिषेधः। श्रुतिपथमधुराणि । श्राव्याणीत्यर्थः । सारसानां रुतानि शुश्रुविरे श्रुतानि । सारसरुतश्रवणान्मन्मथोद्दीपनमासीदित्यर्थः अत्र सारसरते मन्मथचापनादभ्रमाद्धान्तिमदलंकारः । 'कविसंमतसादृश्याद्विधेये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥' इति लक्षणात् ।।
मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि । तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङ्गलीभिः ॥२५॥
मध्विति ॥ उत्सुकान्युन्मनांसि भ्रमरकुलानि मधुमथनस्य हरेर्वधूरावयन्त्याकारयन्तीवेत्युत्प्रेक्षा । हूतिराकारणाह्वानम्' इत्यमरः । ‘शपश्यनोनित्यम्' इवि ह्वयतेः शतुर्नुमागमः। जगुरिति गायतेर्लिट् । वनानामावलिनूतनपल्लवा एवाङ्गुल्य इत्येकदेशवर्तिसावयवरूपकम् । अस्यैव वनावलौ नर्तकीत्वरूपगमका त्वादिति । ताभिस्तदभिनयं व्यञ्जकचेष्टामतनुतेव । 'व्यञ्जकाभिनयौ समो' इत्यमरः। 'अङ्गैरालम्बयेद्गीतं हस्तेनार्थ प्रदर्शयेत्' इति वचनात् । गीतार्थ. स्याह्वानस्य व्यञ्जनमङ्गुलिभिरका(दिवेति क्रियास्वरूपोत्प्रेक्षा । पूर्वोक्तरूपकानु. प्राणिता साह्वानोत्प्रेक्षासापेक्षेति सजातीयसंकरोऽपीति ॥ असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् । मरुदवनिरुहां रजो वधूभ्यः समुपहरन्विचकार कोरकाणि ॥२६॥