________________
सप्तमः सर्गः।
१७३
असकलेति ॥ मरुदनानिलः असकला असमग्राः । अर्धविकचा इत्यर्थः । ताभिः कलिकाभिः कोरकैराकुलीकृतानां संक्षोभितानामलीनां स्खलनेन विघट्टनेन विकीर्णा विक्षिप्ता विकासिनः केशराः किंजल्का येषां तेषामवनिरुहाम् । क्विप् । रजः परागं वधूभ्यः समुपहरन्प्रयच्छन् । यथा कश्चित्कामीति भावः । धनमर्जयन्वसतीतिवत् , 'लक्षणहेत्वोः क्रियायाः' इति हेत्वर्थे शतृप्रत्ययः । कोरकाणि कुड्मलानि । 'कलिका कोरकः पुमान्' इत्यमरकोशे पुंस्त्वाभिधानं प्रायिकाभिप्रायम् । 'कोरकं कुड्मलेऽपि स्यात्कक्कोलकमृणालयोः' इति विश्वप्रकाशादौ नपुंसकत्वस्याभिधानात् । विचकार । विकासयामासेत्यर्थः । विपूर्वाकिरतेः करोतेर्वा लिद । अत्र कोरकविकासकरणस्य समुपहरन्निति हेत्वर्थेन वधूसंप्रदानकपरागोपहरणार्थत्वावगमात्फलोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या ॥ उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य । परिमलविषयस्तदुन्नतानामनुगमने खलु संपदोऽग्रतःस्थाः २७
उपवनेति ॥ वने इत्युपवनम् । विभक्त्यर्थेऽव्ययीभावः । तत्र यः पवनस्तस्यानुपातेनानुसारेण दक्षैर्विचक्षणैरलिभिर्यद्यतः कारणादङ्गनाजनस्य संबन्धी परिमलो गन्धविशेषः । 'विमदोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः । स एव विषयो भोग्यार्थः। 'रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी' इति । अलाभि लब्धः । लभेः कर्मणि लुङ् 'विभाषा चिण्णमुलोः' इति विकल्पान्नुमभावः ‘अत उपधायाः' इति वृद्धिः । तस्मादुन्नतानां महतानुगमने पश्चाद्धावने, अनुवृत्तौ च संपदोऽग्रतःस्थाः पुरोवर्तिन्यः खलु । 'सुपि स्थः' इति कप्रत्ययः । अत्रानुगमनयोयोरभेदाध्यवसायाच्छेषोत्थापितातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः सामान्येन विशेषसमर्थनरूपः ॥ रथचरणधराङ्गनाकराजव्यतिकरसंपदुपात्तसौमनस्याः । जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतोऽभिधानम् २८
रथेति ॥ सुमनसः पुष्पाणि रथचरणं चक्रं तस्य धरो धारयिता हरिः । पचाद्यच् । तस्याङ्गनास्तासां कराय॑तिकरः संपर्कः स एव संपत्तयोपात्तं लब्धं सौमनस्यं सुमनस्कत्वं संतुष्टचित्तत्वं याभिस्ताः सत्यः अत एव सौमनस्यलाभ आदिर्यस्मिन्कर्मणि तत्तदादि । ततः प्रभृतीत्यर्थः । अर्थतः पूर्वोक्तावयवार्थात्परिस्फुटं प्रसिद्धावयवार्थमभिधानं सुमनस इति नामधेयं दधति । पूर्व विश्वकर्णकादिवद्रूढमिति भावः । 'आख्याह्वे अभिधानं च नामधेयं च नाम च' इत्यमरः । स्त्रियः। पुष्पाण्यवचेतुं प्रवृत्ता इति फलितोऽर्थः । नूनमित्युत्प्रेक्षायाम् । अत्रोपात्तसौमनस्या इति सौमनस्योपादानस्य पदार्थस्य विशेषणगत्या सुमनःपदान्वर्थताहेतुकत्वोक्त्या काव्यलिङ्गम् । तदुत्थापिता चेयं तदादित्वोत्प्रेक्षेति संकरः। तेन चाङ्गनाकराणामतिलाध्यत्वं व्यज्यते ॥
अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानः। तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानाम् ॥२९॥