________________
१६८
. शिशुपालवधे
मया सततं सदा ते तव । कर्मणि षष्ठी। अनभिभाषणसंभाषणं परिपणितं भवतीति 'भातेर्डवतुः' इत्यौणादिको डवतुप्रत्ययः । 'उगितश्च' इति ङीए । तस्याः संबुद्धिहें भवति सुभगे, त्वयि तदिति तदसंभाषणमस्त्विति विरोधनिश्चितायां निश्चितविरोधायां सत्याम् । 'वाहिताग्यादिषु' इति विकल्पान्निष्ठायाः परनिपातः । असुहृजनो विपक्षवर्गः सकामः फलितमनोरथो भवतु भवेत् । प्राप्तकाले लोट् । अस्मद्विरोधकाशिणामयमानन्दकालः प्राप्त इत्यर्थः ॥
न केवलमावयोर्विरोधः प्राणहानिरपि मम स्यादित्याहमतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः । प्रणयिनि यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः १०
गतेति ॥ गततिरधीराहं भवत्यास्तवानालपनादसंभाषणात् । आलपनं विहायेत्यर्थः । ल्यब्लोपे पञ्चमी । असून्प्राणानवलम्बितुं धारयितुमनलमशक्ता । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । बतेति खेदे । अत एव हे मानिनि, प्रणयिनि प्रिये, प्रसादबुद्धिरनुग्रहबुद्धिर्न यदि नाम्ति चेत्तथापि मम जीविते दयालुभव । 'स्मृहिगृहि-' इत्यादिना आलुच्प्रत्ययः । स धूर्तोऽपि मत्प्राणत्राणार्थमनुग्राह्य इति भावः ॥ प्रियमिति वनिता नितान्तमागःस्मरणसरोषकषायितायताक्षी । चरणगतसखीवचोऽनुरोधात्किल कथमप्यनुकूलयांचकार ॥११॥
प्रियमिति ॥ इतीत्थं नितान्तमागसोऽन्यासङ्गापराधस्य स्मरणेन सरोषे अत एव कषाये लोहिते कृते कषायिते आयते चाक्षिणी यस्याः सा तथोक्ता । 'निर्यासे च कषायोऽथ सौरभे लोहितेऽन्यवत्' इति विश्वः । वनिता नायिका चरणगतायाः पूर्वोक्तवाक्यान्ते प्रणतायाः सख्या वचसोऽनुरोधादनुल्लङ्घनाकिल। किलेत्यपरमार्थे । वस्तुतस्त्वनुरागादेवेति भावः । प्रियं कथमपि कथंचिदनुकूलयांचकाराभिमुखीचकार । अनुजग्राहेत्यर्थः । एषा खण्डिता नायिका । 'ज्ञातेऽन्यासङ्गविकृते खण्डितेयांकषायिता' इति दशरूपकलक्षणात् । अत एव कविना आगःस्मरणसरोषकषायिताक्षीयुक्तम् । एषा चासंभाषणचिन्ताखेदाश्रुनिःश्वासाद्यनुभाववती ॥ ___ अथ काचित्सखी कंचिदने शीघ्रगामिनं युग्मेनाहद्रुतपदमिति मा वयस यासीननु सुतनुं परिपालयानुयान्तीम् । नहि न विदितखेदमेतदीयस्तनजघनोद्वहने तवापि चेतः॥१२॥
द्रुतेति ॥ हे वयस्य सखे, इतीत्थं द्रुतपदं शीघ्रपदक्रमं यथा तथा मा यासीर्मा गमः । याते ङि 'न माङयोगे' इत्यदप्रतिषेधः । अनुयान्तीमनुगच्छन्ती सुतनुं शुभाङ्गी प्रियामनुपालय प्रतीक्षस्व । असावपि शीघ्रमायातु तत्राह-नहीति । तव चेतोऽपि एतदीयस्तनजघनोद्वहने विदितखेदमनुभूतखेदं नेति न । किंतु