________________
सप्तमः सर्गः।
१६७
गुरुनिविडनितम्बविम्बभाराक्रमणनिपीडितमङ्गनाजनस्य । चरणयुगमसुनुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥६॥
गुर्विति ॥ गुरु गुरुत्वगुणयुक्तं निविडं दृढं च यन्नितम्बबिम्बं तदेव भारस्तस्याक्रमणेनाधिष्टानेन निपीडितं निष्पीडितमङ्गनाजनस्य चरणयुगं कर्तृ, पदेषु पादन्यासस्थानेप्वलक्तकच्छलेन लाक्षारसमिषेण स्वरसं स्वन्द्वमेव । 'गुणे रागे दवे रसः' इत्यमरः । असक्तमविच्छिन्नं यथा तथासुस्रुवत् स्रवति स्म । स्रवतेः क्षरणााल्लुङि ‘णिश्रि-' इत्यादिना चङि धातोरुवडादेशः । द्रवदव्यकर्तृक एवायमकर्मकः । अन्यकर्तृकत्वे तु सकर्मकः । अत्रालक्तकच्छलेनेत्यलक्तकापहवेन स्वरसत्वारोपाच्छलादिशब्दैरसत्यत्वप्रतिपादनरूपोऽपह्नवालंकारः ॥ अथ कस्याश्चित्सख्याः कुपितनायिकानुनयवचनं पञ्चभिः कुलकेनाहतव सपदि समीपमानये तामहमिति तस्य मयाग्रतोऽभ्यधायि । अतिरभसकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ७ तवेत्यादि ॥ तां मत्सखीं सपदि तव समीपमहमानये आनयिष्यामि । वर्तमानसामीप्ये वर्तमानप्रत्ययः । कर्तुरभिप्राये आत्मनेपदम् । इति मया तस्याग्रतोऽभ्यधाय्यभिहितम् । दधातेः कर्मणि लुङ् 'आतो युक् चिण्कृतोः' इति गुगागमः । हे गुणगौरि गुणैः सौभाग्यदाक्षिण्यादिभिगौरि पार्वतीति रूपकम् । अतिरभसेनातित्वरया कृता अलघुर्महती प्रतिज्ञा त्वदानयना यया तां नामनृतगिरमसत्यवाचं मा कृथाः मा कार्षीः । मद्वचनं सर्वथा कर्तव्यमित्यर्थः । करोतेलुङि थास् 'न माङ्योगे' इत्यडागमप्रतिषेधः ॥
ननु मत्प्रतिज्ञापि दुस्त्याज्येति विप्रतिषेधमाशक्क्याहन च सुतनु न वेनि यन्महीयानसुनिरसस्तव निश्चयः परेण । चितथयति न जातु मद्वचोऽसाविति च तथापि सखीषु मेऽभिमानः
न चेति ॥ हे सुतनु शुभाङ्गि । दीर्घान्तोत्तरपदात्संबुद्धिः अन्यथा गुणः स्यात् । अहं न वेद्मीति न । किंतु वेन्येवेत्यर्थः । किं तद्वेत्सीत्यत आह-महीयान्महत्तरम्तव निश्चयस्त्वदनैक्ये प्रतिज्ञा परेण जनान्तरेण सुनिरसः सुखमोच्यः । अस्यतेः खलप्रत्ययः । स न भवतीत्यसुनिरस इति यत्तदित्यर्थलभ्यम्। उद्देश्येन विधेयाक्षेपाद्यच्छब्दस्योत्तरवाक्यस्थत्वाच्च न पूर्ववाक्ये तच्छब्दप्रयोग इति निबन्धः । तथापि विदितत्वेऽप्यसौ मत्सखी जातु कदाचिदपि मढचो न वितथयति नानृतीकरोतीति सखीपु मध्ये मेऽभिमानः। स्वप्रतिज्ञाभङ्गेऽपि मत्प्रतिज्ञामेव पालयसीत्यहंकारान्निःशङ्कं प्रतिज्ञातमित्यर्थः ॥ सततमनभिभापणं मया ते परिपणितं भवतीमनानयन्त्या । त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहजनः सकामः ९
सततमिति ॥ भवतीं त्वामनानयन्त्या । आनयितुमशक्नुवत्या इत्यर्थः ।