________________
शिशुपालवधे अवसरमधिगम्य तं हरन्त्यो हृदयमयतकृतोज्वलस्वरूपाः। अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसंपदोऽङ्गनासु ॥३॥
अवसरमिति ॥ तमवसरं सहजिगमिषाकालमधिगम्य हृदयं हरन्त्यो हृदयंगमा भवन्त्यः । सर्वं हि प्रार्थ्यमानमेव प्रियं भवतीत्यर्थः । यत्नेन कृतं न भवतीत्ययनकृतं तथाप्युज्वलं स्वरूपं यासां ताः । स्वभावसुन्दरमूर्तय इत्यर्थः । अङ्गनास्तदानीं तस्मिन्नवसरेऽवनिषु पदं न्यदधत निहितवत्यः । पादचारेणैव चेलुरित्यर्थः । दधातेर्लङि 'आत्मनेपदेष्वनतः' इति झस्यादादेशः । अङ्गनासु विभ्रमसंपदो विलाससंपदः पदं न्यदधत । तदानीं विलासाः प्रवृत्ता इत्यर्थः । अत्राङ्गनानां विलाससंपदां चोभयीनामपि प्रकृतानामेव हृदयहरणादिना वर्णनासाम्येनौपम्यस्य गम्यमानत्वात्केवलप्रकृतविषया तुल्ययोगितालंकारः । वाच्यभेदेनाप्यङ्गनाविलाससंपदामुत्तरोत्तरस्य पूर्वपूर्वविशेषकत्वावगमादेकावलीभेदो व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ न्यदधत विभ्रमसंपदोऽङ्गनास्वित्युक्तं ता एव प्रपञ्चयतिनखरुचिरचितेन्द्रचापलेख ललितगतेषु गतागतं दधाना । मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ४ नखेति.॥ ललितगतेषु मन्दगमनेषु नखानां रुचिभिः प्रभाभी रचिता इन्द्र चापलेखा यस्मिन्कर्मणि तद्यथा तथा गतागतं यातायाते । 'विप्रतिषिद्धं चान धिकरणवाचि' इति वैभाषिको द्वन्द्वैकवद्भावः । दधाना तरुण्याः भुजलतिका मुखराः कृता इति मुखरिताः ध्वनिता वलया यस्मिन्कर्मणि तद्यथा तथा। 'कटको वलयोऽस्त्रियाम्' इत्यमरः । पृथौ नितम्बे मुहुरस्खलच्चस्खाल । अत्र नखरुचीत्यालम्बनगुण उक्तः । गतागतं दधाना अस्खलदिति तच्चेष्टा । मुखरितव. लयमिति तदलंकृतिः । तटस्थास्तूक्ता वसन्तादयः। अन्यत्र विस्तारत इति चतु. विधोऽप्युद्दीपनक्रम उक्तः । उक्तं च-'आलम्बनगुणाश्चैव तच्चेष्टा तदलंकृतिः । तटस्थश्चेति विज्ञेयश्चतुष्कोद्दीपनक्रमः ॥' इति । तत्रालम्बनं रसस्य समवायिकारणं नायिका नायकश्च । तद्गुणो रूपलावण्यादिः । तच्चेष्टा भावहावादिः । अन्यत्सु. गमम् । एवमुत्तरत्रापि ॥
अतिशयपरिणाहवान्वितेने बहुतरमर्पितरनकिङ्किणीकः । अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ५
अतिशयेति ॥ अतिशयेन परिणाहवान् । अतिविशाल इत्यर्थः । अन्यथा तजघनस्य पर्याप्तेरिति भावः । 'परिणाहो विशालता' । 'उपसर्गादसमासेऽपि णोपदेशस्य' इति णत्वम् । बहुतरमर्पिता आहिता रत्नानां किङ्किण्यो यस्मिन्सः । 'नवृतश्च' इति कप्प्रत्ययः । कलो मधुरारावी मेखलाकलापोऽपरस्याः स्त्रियः अलघुनि जघनस्थलेऽधिकं ध्वनि वितेने । तदलंकृतिरियम् ॥