SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ चतुर्थः सर्गः। स्थगयन्त्यमूः शमितचातकार्तस्वरा जलदास्तडित्तुलितकान्तकातखराः । जगतीरिह स्फुरितचारुचामीकराः सवितुः क्वचित्कपिशयन्ति चामी कराः ॥ २४ ॥ स्थगयन्तीति ॥ इहाद्रौ क्वचिदमूर्जगतीभूमीः। 'जगती भुवने भूमौ' इति विश्वः । शमिताश्चातकानामार्तस्वरा यैस्ते शमितचातकार्तस्वराः । 'सर्वसहापतितमम्बु न चातकानाम्' इति भूमिगतस्य तेषां विषाभत्वादभौमाम्बुपानेनोजीवयन्तीत्यर्थः। किंच तडिद्भिस्तुलितान्युपमितानि कान्तानि कार्तखराणि सुवर्णानि यैस्ते तडित्तुलितकान्तकार्तस्वराः । तडित्स्फुरणे तेषामपि तद्वत्स्फुरणादिति भावः । ते जलदाः स्थगयन्त्याच्छादयन्ति । 'स्थग आच्छादने' इति चौरादिकः । क्वचित्तु स्फुरितान्युल्लसितानि चारूणि चामीकराणि सुवर्णानि यैस्ते स्फुरितचारुचामीकरा अमी सवितुः कराः, आतपाश्च कपिशयन्ति कपिशिताः कुर्वते । कचि. दृष्टिः क्वचिदातपश्चेति महदाश्चर्यमिति भावः । पथ्या वृत्तम् । 'सजसा यलो च सह गेन पथ्या मता' ॥ उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बै रुत्तम्भितोडुभिरतीवतरां शिरोभिः । श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥ २५ ॥ उत्क्षिप्तमिति ॥ उच्छ्रिता उरिक्षप्ताः सितांशोश्चन्द्रस्य करा अंशवो हस्ताश्चावलम्बो येषां तैः। उत्तम्भितान्युडूनि यैस्तैः । उडूनि चावष्टभ्येत्यर्थः । शिरोभिः, शिखरैर्मस्तकैश्चातीवरां भृशतरम् । अतीवशब्दादव्ययादामुप्रत्ययः । उरिक्षप्यमु. द्यम्य वृतं अन्तरीक्षं श्रद्धेयः सादृश्याद्विश्वसनीयो निर्झरजलमिति व्यपदेशो व्यवहारो यस्य तत् । दृढतरां निझरजलधियं कुर्वदित्यर्थः । अस्याद्रेस्तटेषु विष्वक्समन्तात्पतति स्फुटं सत्यम् । इन्दुकरानुडूनि चावष्टभ्य शिरोभिर्धियमाणमपि दुरुद्धरत्वाद्रश्यदन्तरीक्षमेवेदं न तु जलम् । सादृश्यात्तु व्यपदेशो दुर्वार इति सर्वतः पातिता, निझरजलं चोत्प्रेक्ष्यते । तेनोत्सेधविस्तारावस्य व्यज्यते ॥ एकत्र स्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसोऽपरत्र । कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥२६॥ एकत्रेति ॥ एकत्र एकस्मिन्भागे स्फटिकस्य यत्तटं तस्यांशुभिभिननीरा मिश्रोदकाः । शुभ्रजला इत्यर्थः । अपरत्रापरस्सिन्भागे नीलाश्मनामिन्द्रनीलानां विशु० ९
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy