________________
शिशुपालवधे
मानेन घण्टाद्वयेन परिवारितस्य वेष्टितस्य वारणेन्द्रस्य लीलां शोभा वहति । अत्र लीलामिव लीलामिति सादृश्याक्षेपानिदर्शना । तथा सूर्याचन्द्रमसावस्य कुक्षिसमानकक्षा बिभ्रत इति महदौन्नत्यं व्यज्यते । पुष्पिताग्रा वृत्तम् । 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति ॥
वहति यः परितः कनकस्थलीः सहरिता समाननवांशुकः । अचल एष भवानिव राजते स हरितालसमाननवांशुकः॥२१॥ वहतीति ॥ लसमाना दीप्यमाना नवांशवो यस्य स लसमाननवांशुकः। शैषिकः कप्प्रत्ययः । योऽचलः सहरिताः सदूर्वाः । 'हरितेति च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' इति विश्वः । कनकस्य स्थलीः स्वर्णभूमीः। 'जानपद-' इत्यादिना अकृत्रिमार्थे ङीष् । परितो वहति स एषोऽचलः हरितालेन कर्चुरेण समानं नवमंशुकं वासो यस्य स हरितालसमाननवांशुकः पीताम्बरो भवानिव राजते। द्रुतविलम्बितं वृत्तम् । 'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥
पाश्चात्यभागमिह सानुषु संनिषण्णाः
पश्यन्ति शान्तमलसान्द्रतरांशुजालम् । संपूर्णलब्धललनालपनोपमान
मुत्सङ्गसङ्गिहरिणस्य मृगाङ्कमूर्तेः ॥ २२ ॥ पाश्चात्येति ॥ इहाद्रौ सानुषु संनिषण्णाः स्थिता जनाः शान्तमलं कल. ङ्कस्य पुरोवर्तित्वानिष्कलङ्कमत एव सान्द्रतरमंशुजालं यस्य तं संपूर्ण परिपूर्ण लब्धं प्राप्तं ललनालपनोपमानं स्त्रीमुखसादृश्यं येन तम् । 'आननं लपनं मुखम्' इत्यमरः । कुतः । उत्सङ्गसङ्गिहरिणस्याङ्कस्थमृगस्य मृगाङ्का मृगचिह्ना मूर्तिर्यस्य तस्य मृगाङ्कमूर्तेश्चन्द्रस्य पश्चाद्भवः पाश्चात्यः । 'दक्षिणापश्चात्पुरसस्त्यक्' । सचासौ भागश्च तं पाश्चात्यभागं पृष्ठभागं पश्यन्ति । पाश्चात्यभागदर्शनातिशयोतया तादृगौन्नत्यध्वनिः । वसन्ततिलका वृत्तम् ॥
कृत्वा पुंवत्पातमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः । कुर्वन्ति द्यामुत्पतन्तः स्मरातस्वलॊकस्त्रीगात्रनिर्वाणमत्र ॥२३॥ कृत्वेति ॥ अनाद्री निर्झरौघा गिरिनदप्रवाहाः। 'प्रवाहो निर्झरो झरः' इत्यमरः । चूतवृक्ष इत्यादिवत्सामान्यविशेषभावादपुनरुक्तिः । पुंवत्पुंभिस्तुल्यम् । 'तेन तुल्यं क्रिया चेत्-' इति वतिः। उच्चै गुभ्योऽतटेभ्यः। 'प्रपातस्त्वतटो भृगुः' इत्यमरः । ग्राव्णां शिलानां मूर्ध्नि पातं कृत्वा पतित्वा जर्जराः शकलीभूता द्यामाकाशं प्रत्युत्पतन्तः स्मरार्तानां स्वलॊकस्त्रीणां खेचरीणामप्सरसां गात्रनिर्वाणमङ्गनिर्वृतिं कुर्वन्ति । 'अनुष्टानासमर्थस्य वानप्रस्थस्य जीर्यतः । भृग्वग्निजलसं. पातैमरणं प्रविधीयते ॥' इति विहितभृगुपातिनां पुंसां स्वर्लोकगामिनामिहोपमा. नता । शालिनी वृत्तम् । 'शालिन्युक्ता न्तौ तगौ गोऽब्धिलोकैः' इति ॥