________________
चतुर्थः सर्गः।
'आकारादनुपपदात्कर्मोपपदो भवति विप्रतिषेधेन' इति वचनात् । दारुकः कृष्णसारथिरुच्चा उन्नता रणन्तः शब्दायमानाः पक्षिगणा यासु ता रणत्पक्षिगणास्तटीर्दधानं तं पूर्वोक्तं धरतीति धरं पर्वतम् । पचाद्यच् 'अहार्यधरपवताः' इत्यमरः । द्रष्टुमुल्कमुत्सुकम् । 'उत्क उन्मनाः' इति निपातः । उत्कंधरमौत्सुक्यादुन्नमितकंधरं शौरिमवेक्ष्य इति वक्ष्यमाणक्रमेण वाचमुवाच । नहीङ्गितज्ञोऽवसरेऽवसीदतीति भावः ॥ इतःप्रभृति यमकानन्तरश्लोकेषु वसन्ततिलकावृत्तं नियमेनाहआच्छादितायतदिगम्बरमुच्चकैः
माक्रम्य संस्थितमुदग्रविशालशृङ्गम् । मूर्ध्नि स्खलत्तुहिनदीधितिकोटिमेन
मुद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥ १९ ॥ आच्छादितेति ॥ आच्छादितान्यावृतानि आयतानि दीर्घाणि दिशोऽम्बरं खं च दिगम्बराणि येन तम् , अन्यत्राच्छादितं वसितमायतं दिगेवाम्बरं वासो येन तं तथोक्तम् । उच्चकैरुन्नतां गां भुवमाक्रम्य व्याप्य संस्थितम् । तथोदग्रा. ण्युन्नतानि विशालानि च शृङ्गाणि शिखराणि यस्य तम् । अन्यत्रोदने विशाले शृङ्गे विषाणे यस्य तं उच्चकैरुन्नतं गां वृषभमाक्रम्य अधिष्ठाय संस्थितमित्यर्थः। 'शृङ्गं विषाणे शिखरे' इति, 'गौः स्वर्गे वृषभे रश्मौ वज्रे चन्द्रमसि स्मृतः । अर्जुनीनेत्रदिग्बाणभूवाग्वारिषु गौर्मता ॥' इति च विश्वः । मूर्ध्नि शिखरे । अन्यत्र शिरसि स्फुरन्ती तुहिनदीधितेरिन्दोः कोटिः रश्मिः, कला च यस्य तमेनं नगेशं नगश्रेष्ठं रैवतकं कैलासनायकमीश्वरं चोदीक्ष्य को न विस्मयते । सर्वोऽपि विस्मयत इत्यर्थः । नेयं तुल्ययोगिता । प्रकृताप्रकृतविषये तदनुत्थानात् । नापि समासोक्तिः । तस्या विशेषणसाम्यजीवित्वात् । नापि श्लेषः । उभयश्लेषे विशेप्यश्लेषयोगात् । तस्मात्प्राकरणिकार्थमात्रपर्यवसिताभिधाव्यापारेणापि शब्ढ़ेनार्थान्तरधीकृद्धवनिरित्याहुः । तदुक्तं काव्यप्रकाशे-'अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृघ्यापृतिरञ्जनम् ॥' इति । वृत्तलक्षणं तु-'उक्ता वसन्ततिलका तभजा जगा गः' इति ॥ उदयति विततो रश्मिरजावहिमरुचौ हिमधानि याति चास्तम् वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम्२० उदयतीति ॥ वितता अाश्च रश्मिरजवो रश्मयो रजव इव यस्य तस्मिन्दिततोलरश्मिरजौ अहिमरुचौ सूर्ये उदयत्युदयमाने । 'अय गतौ' इति स्वरितेतं केचिदिच्छन्ति । ततः शतरि सप्तमी । तथा विततोलरश्मिरजौ हिमधाम्नि चन्द्रे चास्तं यात्यस्तमयमाने । यातेः शतरि सप्तमी । अयं गिरिविलम्बिना विशेष लम्ब
१'इट किट कटी गतौ' इत्यत्र केचिदीकारप्रश्लेषं वर्णयन्ति इति, अनेनैव श्लोकेन कविना 'घण्टामाघः' इति नाम लब्धम् , इति च वल्लभदेवः.