________________
शिशुपालवधे
स्वगुणत्यागेन गरुडाग्रजगुणग्रहणात्पुनस्तत्त्यागेन मरकतगुणग्रहणादपरस्त गुणस्त दुपजीवीति सजातीययोः संकरः । तेन गिरेः सूर्यमण्डलपर्यन्तमौन्नत्यं वस्तु व्यज्यते । 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः ' ॥
९४
यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भिः । वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ||१५|| यत्रेति ॥ यत्र शैले समुन्नमद्भिः समुत्पतद्भिरम्बुवा है रुज्झिताभिस्त्यक्ताभिरद्भिर्मुहुः समुन्नं सम्यगुन्नं क्विन्नम् । सिक्तमित्यर्थः । 'उन्दी क्केदने' इति धातोः कर्मणि क्तः । ' नुदविद -' इत्यादिना निष्ठानत्वम् । विपन्नगा विगतसर्पा न भवन्तीत्यविपन्नगाः । सपन्नगा इत्यर्थः । तेषामविपन्नगानां नगानां वृक्षाणां वनविषपावकोत्था विषाग्निसमुत्था विपदापन्न बबाधे । नित्यं वर्षानुसङ्गाद्विषाग्निक्षोभो वृक्षाणामकिंचित्कर इति भावः ॥ फलद्भिरुष्णांशुकराभिमर्शात्काशनवं धाम पतङ्गकान्तैः । शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् १६ फलद्भिरिति ॥ यः शैल उष्णांशुकराभिमर्शादर्ककरसंपर्कात् कृशानोरिदं काशनवमाग्नेयं धाम तेजः फलद्भिरुद्भिरद्भिः । अग्निकरसामर्थ्याभिव्यञ्जकैरिति भावः। पतङ्गकान्तैः सूर्यकान्तैः । दृष्टान्तभूतैरिति भावः । गुणानां संक्रान्तिमन्यत्र संक्रमणम् । संक्रान्तगुणानित्यर्थः । पात्रगुणादाधारगुण सहकारादाक्रान्तः प्राप्तो गुणातिरेकः कार्यविशेषाधानरूपो गुणोत्कर्षो यस्यास्तां शशंस प्रतिपादयामास । अर्कत्विषां सर्वत्र संक्रमणाविशेषेऽपि सूर्यकान्तेष्वेव ज्वलनजननदर्शनात्सर्वत्रापि संम्यकारिणां गुणानामाधारगुण सहकारात्कार्यविशेषाधायकत्वमिति निश्चयोऽत्रैव जायत इत्यर्थः । ततश्च सहकारशक्तिविरहिणी सहजशक्तिरनुपकारिणीति भावः । वृत्त्यनुप्रासोऽलंकारः ॥
दृष्टोऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान ।
क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः ॥ १७ ॥ पीति ॥ मुष्टोऽपि स शैलो मुरारेरपूर्वेणादृष्टपूर्वेण तुल्यमपूर्ववत् । 'तेन तुल्यं क्रिया चेत् -' इति वतिः । विस्मयमाततान । अतिरमणीयत्वादिति भावः । तथाहि — क्षणे क्षणे प्रतिक्षणम् । वीप्सायां द्विर्भावः । नवतामपूर्ववद्भावमुपैतीति यत्, तन्नवत्वोपगमनमेव रमणीयताया रूपं स्वरूपम् । लक्षणमित्यर्थः । अत्र रमणीयत्वलक्षणस्य वाक्यार्थस्य विस्मये हेतुत्वसमर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः ॥
उच्चारणज्ञोऽथ गिरा दधानमुच्चा रणत्पक्षिगणास्तटीस्तम् । उत्कं धरं द्रष्टुमवेक्ष्य शौरिमुत्कंधरं दारुक इत्युवाच ॥ १८ ॥ उच्चारणज्ञ इति ॥ अथ हरिविस्मयानन्तरं गिरां वाक्यानामुच्चारणं जानातीत्युच्चारणज्ञ उक्तिकुशलः | 'आतोऽनुपसर्गे कः' इति कप्रत्ययः । ' इगुपधे 'त्यादिना