________________
चतुर्थः सर्गः।
९३
नयोः' इत्यमरः । भृतानि संभृतानि मितानि च उच्छिखान्युदश्मीनि अमितान्यपरिमितानि रत्नानि यतः शैलादाढ्याद्धनिकात् । 'इभ्य आढ्यो धनी' इत्यमरः । प्रपणो व्यवहारः प्रयोजनमस्य प्रापणिको वणिक् । 'तदस्य प्रयोजनम्' इति ठक् । 'पण्याजीवाः प्रापणिका वैदेहा नैगमाश्च ते वणिजः' इति वैजयन्ती । तस्मादिवाजस्रं मुहुर्जग्राह । उपमालंकारः ॥
अखिद्यतासन्नमुदग्रतापं रविं दधानेऽप्यरविन्दधाने । भृङ्गावलियस्य तटे निपीतरसा नमत्तामरसा न मत्ता ॥१२॥
अखिद्यतेति ॥ आसन्नमौन्नत्यात्संनिहितमत एवोदग्रतापं दुःसहतापं रविं दधानेऽपि अरविन्दधान इति विरोधः । अरविन्दानां धाने निधाने इति परिहारः। धीयतेऽस्मिन्निति धानम् । अधिकरणे ल्युट । शब्दश्लेषमूलो विरोधालंकारः । यस्य गिरेस्तटे निपीतरसा नितरां पीतमकरन्दा नमन्ति तामरसानि पङ्केरुहाणि भारभूतया यया सा नमत्तामरसा। 'पङ्केरुहं तामरसम्' इत्यमरः । अत एव मत्ता भृङ्गावलि खिद्यत न खिन्ना । खिदेवादिकाकर्तरि लङ् । अत्यन्तसूर्यसंनिधानेऽप्यरविन्दाकरविहारान्मधुकरास्तापं नापुरित्यर्थः ॥
यत्राधिरूढेन महीरुहोचैरुन्निद्रपुष्पाक्षिसहस्रभाजा। मुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः॥१३॥ यत्रेति ॥ यत्र शैले रजतस्य विकारो राजतः। 'प्राणिरजतादिभ्योऽञ्' इत्यप्रत्ययः । स चासौ गण्डशैलश्च । 'गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । उन्निद्राणि विकसितानि पुष्पाण्यक्षीणीवेत्युपमितसमासः । तेषां सहस्रं भजतीति तद्भाजा अधिरूढेनोचैर्महीरुहा वृक्षण सुराधिपेन देवेन्द्रेणाधिष्ठितो यो हस्ती मल्ल इव तस्यैरावतस्य लीलां शोभां दधौ। ऐरावतस्य धावल्यादिति भावः। 'हस्तिमल्लोऽभ्रमातङ्गे हस्तिमल्लो विनायके' इति विश्वः । अत्र लीलामिव लीलामिति सादृश्याक्षेपान्निदर्शनालंकारः ॥
विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥१४॥ विभिन्नेति ॥ गरुडाग्रजेनारुणेन विभिन्नवर्णा अन्यथाकृतवर्णाः । अरुणिमानमापादिता इत्यर्थः । सूर्यस्य संबन्धिनो रथं वहन्तीति रथ्या रथाश्वाः । 'तद्वहति रथयुगप्रासङ्गम्' इति यत्प्रत्ययः । यत्र शैले वंशकरीरनीलैवंशाङ्कुरश्यामै रत्नैः । मरकतैरित्यर्थः । 'वंशाङ्करे करीरोऽस्त्री' इत्यमरः । वंशशब्दस्याम्लानताहेतोरलूनतायाः प्रतिपत्त्यर्थत्वादपौनरुक्तयम् । अत एवैकार्थपदमप्रयोज्यमित्युक्त्वा करिकलभकर्णावतंसादिषु प्रतिपत्तिविशेषकरेषु न दोष इत्याह वामनः । न विशेषश्वेदिति । परितः स्फुरन्त्या रुचा स्वप्रभया करणेन, पुनः स्वां रुचं निजहरितवर्णमेवानिन्यिरे आनीताः । नयतेर्द्विकर्मकात्प्रधाने कर्मणि लिट् । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् । अत्र विभिन्नवर्णा इत्येकस्तद्गुणः । रथ्यानां