________________
शिशुपालवधे विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः । नवोलपालंकृतसैकताभाः शुचीरपः शैवलिनीर्दधानम् ॥ ८ ॥ विलम्बीति ॥ विलम्बिनो नीलोत्पलान्येव कर्णपूराः कर्णावतंसा यासां ताः। लोध्रेण लोध्ररजसा गौरीरवदाताः । 'षिगौरादिभ्यश्च' इति ङीष् । कपोलभित्तीः स्त्रीणां गण्डस्थलीरिव स्थिताः । उपमान्तरमाह-नवा उलपा बल्वजतृणानि । 'उलपा बल्बजाः प्रोक्ताः' इति विश्वः । तैरलंकृतानां सैकतानामाभेवाभा यासां ताः । कुतः-शुचीः शुद्धाः शैवलिनी: शैवलवतीरपो दधानम् । शुचित्वशैवलवत्त्वाभ्यां बिम्बप्रतिबिम्बभावेनोपमाद्वयम् ॥
राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं ततिभिस्तरूणाम् । कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ९ राजीवेति ॥ पुनः राजीवराजीनां पद्मपतीनां वशा अधीना लोलाश्चला भृङ्गा यस्मिंस्तं राजीवराजीवशलोलभृङ्गं तरूणां ततिभिः सङ्घरुष्णमातपं मुष्णन्तं हरन्तं कान्ता रम्या अलकान्ताश्चर्णकुन्तलाग्राणि यासां ताः कान्तालकान्ताः । 'अलकाश्चूर्णकुन्तलाः' इत्यमरः । सुराणां ललनाः स्त्रियोऽप्सरसो रक्षोभी राक्षसैरक्षोभितमनभिभूतं यथा तथोद्वहन्तम् ॥
नन्वल्पीयानयं कश्चिदैवतको नाम शिलोच्चयः कथमियद्वर्ण्यत इति शङ्का निरस्थति
मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः। भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः १० मुद इति ॥ मुरारेर्मुदे संतोषायामरैः कर्तृभिः सुमेरोः शृङ्गैः करणैरानीयोपचितस्य वर्धितस्य । आनीतैः शृङ्गैरुपचितस्येत्यर्थः । उपचये करणानां शृङ्गाणामर्थादानयनकर्मत्वम् । यस्य शैलस्योच्छ्राय औन्नत्यं, सौन्दर्यं च तयोर्गुणा उस्कर्षा उद्दामगिरां प्रगल्भवाचां कवीनां मृषा उद्यन्त इति मृषोद्याः मिथ्यावाच्या न भवन्ति । मेरुशृङ्गेषु सर्वगुणसंभवादिति भावः । 'राजसूयसूर्यमृषोद्य-' इत्यादिना वदेः क्यबन्तो निपातः । उत्कृष्टः श्राय उच्छ्राय इति घजन्तेनोपसर्गस्य समासः । न तूपसृष्टान्प्रत्ययः। 'श्रिणीभुवोऽनुपसर्गे' इति नियमात् । मुद इत्यादिश्लोकसप्तके यच्छब्दस्य दृष्टोऽयं शैलः स इत्यनेनान्वयः । मेरुशृङ्गासंबन्धेऽपि संबन्धवर्णनादतिशयोक्तिः ॥
यतः पराया॑नि भृतान्यनूनः प्रस्थैर्मुहुर्भूरिभिरुच्छिखानि । आढ्यादिव प्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ११ यत इति ॥ लोकः पराानि श्रेष्ठान्यनूनैर्महद्भिर्भूरिभिः प्रभूतैः । 'प्रभूतं प्रचुरं प्राज्यं भूरि' इत्यमरः । प्रस्थैः सानुभिर्मानविशेषैश्च । 'प्रस्थोऽस्त्री सानुमा